________________
३७४
त्रिलोकसारे
स्यात् ॥ ५९०२४७ ३१३ अत्र नदीव्यासं १००० हीनयित्वा ५८९२४७ ३१६ अर्धिते २९४६२३ २१३ गंधमालिन्याख्यदेशस्यांत्या यामः स्यात् । प्रागानीतधातकी खंडबाह्यभद्रशालसूचीव्यासं १९२५१५८ पूर्ववत्करणिं कृत्वा १२६५९८०५२४९६४० मूले गृहीते तत्परिधिः स्यात् ३५५८०६२ अस्मिन् पर्वतावरुद्धक्षेत्रं १७८८४२ अपनीय ३३७९२२० प्राग्वत्रैराशिकविधिनाष्टकृत्या ६४ संगुण्य २१६२७००८० द्वादशोत्तरद्विशतेन २१२ भक्ते बाह्यभद्रशालसूचीस्थाने विदेहविष्कंभः स्यात् १०२०१४१ ११ई । अत्र नदीव्यास १००० मपनीय १०१९१४१ १२ दलिते ५०९५ ७० २१३ कच्छाया आयायामः स्यात् ॥ ९३९ ॥ इदानीं कच्छादिविजयादीनां मध्यायाममंत्यायाममानेतुमवतारं गाथाइयेनाह; --
विजयावक्खाराणं विभंगणदिदेवरण्ण परिहीओ | बिण्णिसयवारभजिदा बत्तीसगुणा तहिं वड्डी . ९३२ ॥ विजयवक्षाराणां विभंगनदीदेवारण्यानां परिधयः ।
द्विशतद्वादशभक्ता द्वात्रिंशद्गुणा तस्मिन् वृद्धयः ॥ ९३२ ॥ विजया | विजयवक्षारविभंगनदीदेवारण्यानां चतुर्णां परिधयः द्वात्रिंशत्रुणिता द्वादशोत्तरद्विशतेन २१२ भक्ताश्चेत् तस्मिंस्तस्मिन् वृद्धयो भवंति ॥ ९३२ ॥
सगसगवड्डी णियणियपढमायामम्हि संजुदा मज्झे । दीहो पुणरवि सहिदो तिरिए णियचरिमदीहत्तं ॥ ९३३ ॥ स्वस्वकवृद्धयः निजनिजप्रथमायामे संयुता मध्ये |
दीर्घः पुनरपि सहितः तिर्यक् निजचरमदीर्घत्वम् ॥ ९३३ ॥
सग । विजयादीनां चतुर्णी स्वकीयस्वकीयवृद्धयः निज निज प्रथमायामे संयुक्ताश्चेत् तत्र तत्र मध्ये दीर्घः स्यात् तत्तन्मध्यायामे पुनरपि सहिताश्वेत्