________________
३५२
त्रिलोकसारे
तत्र पंचमषष्ठकालौ न प्रवर्तेते । उत्सर्पिण्यां तु तृतीयकालस्यादित आरभ्य तस्यैवांतपर्यंतं वृद्धिरेव स्यात् । तत्र चतुर्थपंचमषष्ठकाला न प्रवर्तते ॥८८३॥ पढमो देवे चरिमो णिरए तिरिए णरेवि छक्काला। तदियो कुणरे दुस्समसरिसो चरिमुवहिदीवद्धे ॥८८४॥
प्रथमः देवे चरमः निरये तिरश्चि नरेपि षटकालाः । तृतीयः कुनरे दुःषमसदृशः चरमोदधिद्वीपार्धे ॥ ८८४ ॥ पढमो । देवगतौ प्रथमकालो वर्तते, नरके चरमकालो वर्तते, तिर्यग्गतौ मनुष्यगतौ च षटकाला वर्तते, कुमनुष्यभोगभूमौ तृतीयकालो वर्तते, स्वयंभूरमणद्वीपार्धे तत्समुद्रे च दुःषमसदृशः कालो वर्तते ॥ ८८४ ॥
एवं जंबूद्वीपवणर्न परिसमाप्य लवणार्णववर्णनमुपक्रममाणस्तयोर्मध्यस्थितप्राकारस्वरूपनिरूपणव्याजेन शेषद्वीपसमुद्रांतस्थितान् प्राकारान् गाथाद्वयेन निरूपयति;चउगोउरसंजुत्ता भूमिमुहे बार चारि अहुदया। सयलरयणप्यया ते बेकोसवगाढया भूमि ॥ ८८५ ॥
चतुर्गोपुरसंयुक्ता भूमिमुखे द्वादश चत्वारः अष्टोदयाः । सकलरत्नात्मकास्ते द्विकोशावगाढा भामें ॥ ८८५॥
चउ । चतुर्गोपुरसंयुक्ता भूमौ द्वादशयोजनव्यासा मुखे चतुर्योजनव्यासाः अष्टयोजनोदया सकलरत्नात्मकास्ते भूमिं द्विकोशोदयमवगाह्य स्थिताः ॥ ८८५॥ वज्जमयमूलभागा वेलुरियकयाइरम्मसिहरजुदा । दीवोवहीणमंते पायारा होति सम्वत्थ ॥ ८८६ ॥ वज्रमयमूलभागा वैडूर्यकृतातिरम्यशिखरयुताः । द्वीपोदधीनामंते प्राकारा भवंति सर्वत्र ॥ ८८६ ।।