________________
त्रिलोकसारे
उत्सर्पिणाद्वितीये सहस्रशेषेषु कुलकराः कनकः । कनकप्रभराजध्वजपुंगवाः तथा नलिनाः पद्माः महापद्मः ॥ ८७१ ॥ उस्स । उत्सर्पिणी द्वितीयकाले सहस्रवर्षे अवशिष्टे सति कुलकरा भवंति । ते तु कनकः कनकप्रभः कनकराजः कनकध्वजः कनकपुंगव - स्तथा नलिनो नलिनप्रभो नलिनराजो नलिनध्वजो नलिनपुंगवः पद्मः पद्मप्रभः पद्मराजः पद्मध्वजः पद्मपुंगवो महापद्म इति षोडश मनवः स्युः ॥ ८७१ ॥
३४८
अथ तेषां कृत्यं तृतीयकालस्थत्रिषष्ठिशला कापुरुषांश्च गाथाचतुष्टयेनाह;तस्सोलसमणुहि कुलायाराणलपक्कपहुदिया होंति । तेवद्विणरा तदिए सेणियचर पढमतित्थयरो ॥ ८७२ ॥ तत्षोडशमनुभिः कुलाचारानलप कप्रभृतयो भवति ।
त्रिषष्ठिन रास्तृतीये श्रेणिकचरः प्रथमतीर्थकरः || ८७२ ॥ तस्सोलस । तैः षोडशमनुभिः कुलाचारानलपक्कप्रभृतयो भवति । तृतीये काले पुनस्त्रिषष्टिशलाकाः पुरुषा भवंति । तत्र श्रोणिकचरः प्रथमतीकरः स्यात् ॥ ८७२ ॥
महपरमो सुरदेवो सुपासणामो सयंपहो तुरियो । सव्वप्पभूद देवादीपुत्तो होहि कुलपुत्तो ॥ ८७३ ॥ महापद्मः सुरदेवः सुपार्श्वनामा स्वयंप्रभः तुर्यः । सर्वात्मभूतो देवादिपुत्रो भवति कुलपुत्रः ॥ ८७३ ॥
महपउमो । महापद्मः सुरदेवः सुपार्श्वनामा स्वयंप्रभस्तुर्यः सर्वात्मभूतो 'देवपुत्रः कुलपुत्रो भवति ॥ ८७३ ॥
तित्थयरुदंक पोट्ठिल जयकित्ती मुणिपदादिसुव्वदओ । अरणिप्पावकसाया विउलो किण्हचरणिम्मलओ८७४