SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३१५ अथ कालद्वयभेदानां संज्ञाः कथयति;मुसमसुसमं च सुसमं सुसमादी अंतदुस्समं कमसो । दुस्सममतिदुस्सममिदि पढमो बिदियो दु विवरीयो७८० सुषमसुषमः च सुषमः सुषमादिः अंतदुःषमः क्रमशः । दुषमः अतिदुःषम इति प्रथमः द्वितीयस्तु विपरीतः ॥ ७८० ॥ सुसम । सुषमसुषमः सुषमः सुषमदुःषमः दुःषमसुषमः दुःषमः अतिदुःषमः ६ इति क्रमेण प्रथमोऽवसर्पिणीकालः षड्भेदः, द्वितीय उत्सर्पिणी. कालः एतद्वैपरीत्येन षड्भेदः ॥ ७८० ॥ __ अथ प्रथमादिकालानां स्थितिप्रमाणमाह;-- चदुतिदुगकोउकोडी बादालसहस्सवासहीणेकं । मीण। उदधीणं हीणदलं तत्तियमेतद्विदी ताणं ॥ ७८१ ॥ चतुस्त्रिद्विककोटीकोटिः वाचत्वारिंशत्सहस्रवर्षहीनकम् । उदधीनां हीनदलं तावन्मात्रा स्थितिः तेषां ॥ ७८१ ॥ चदु । तेषां षट्रालानां क्रमेण स्थितिः चतुःकोटीकोटिसागरोपमा त्रिकोटीकोटिसागरोपमा द्विकोटीकोटिसागरोपमा द्वाचत्वारिंशत्सहस्रवर्षहीनैककोटीकोटिसागरोपमा । हीनस्य ४२००० दलं उभयत्र प्रत्येकं २१००० तावन्मात्रा च ज्ञातव्या ॥ ७८१ ॥ अथ षटालजीवानामायुःप्रमाणं निरूपयति;-- तत्थादि अंत आऊ तिदुगेक्कं पल्लपुवकोडी य । वीसहियसयं वीसं पण्णरसा होंति वासाणं ॥ ७८२॥ तत्रादौ अंते आयुः त्रिद्विकैकं पल्यं पूर्वकोटिः । विंशाधिकशतं विशं पंचदश भवंति वर्षाणां ॥७८२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy