________________
३०२
त्रिलोकसारे
सोलेकट्ठिबिसटिगि णवेकदुगदोण्णिदुकदिणभदोण्णि । देउत्तरकुरुचावं जीवा बाणं च जाणेज्जो ॥ ७५७ ॥ षोडशैकषष्ठिद्विषष्ठयेकं नवैकद्विकद्वयद्विकृतिनभो द्वे । देवोत्तरकुरुचापं जीवा बाणं च ज्ञातव्याः ॥ ७९७ ॥
सोले । पुष्करार्धाल्पमहागजदंतानामायामो यथासंख्यं षोडशैकषष्ठिद्विषष्टयंकोत्तरैकयोजनानि १६२६११६ नवैकद्विकद्वयविकृतिशून्योत्तरद्वियोजनानि स्युः २०४२२१९ देवोत्तरकुर्वोश्चापं जीवा बाणं च वक्ष्यमाणप्रकारेण ज्ञातव्याः ॥ ७५७ ॥
अथ चापाद्यानयनप्रकारं गाथानवकेनाह;-- वक्खारवास विरहिय पढमे दुगुणिदे जुदे मेरुं । जीवा कुरुस्स चावं गजदंतायाममेलिदे होदि ॥७५८॥
वक्षारव्यासं विरहितं प्रथमे द्विगुणिते युते मेरौ ।
जीवा कुरोः चापो गजदंतायाममलिते भवति ॥ ७९८ ॥ वक्खार । वक्षारव्यासं ५०० भद्रशालाख्यप्रथमवने २२००० विरहितं कृत्वा २१५० एतद्विगुणीकृत्य ४३००० तत्र मेरुव्यासे १०००० युते सति कुरुक्षेत्रस्य जीवा प्रमाणं स्यात् । ५३००० उभयगजदंतायामे ३०२०९६९।३०२०९६ मिलिते सति कुरुक्षेत्रस्य चापो भवति ६०४१८१९ ।। ७५८ ॥ मेरुगिरिभूमिवासं अवणीय विदेहवस्सवासादो। दलिदे कुरुविक्खंभो सो चेव कुरुस्स बाणं च ॥७५९॥
मेरुगिरिभूमिव्यासं अपनीय विदेहवर्षव्यासतः । दलिते कुरुविष्कंभः स चैव कुरोः बाणः च ॥ ७५९ ॥