________________
२८८
त्रिलोकसारे
शिखरेषु सौधर्मैशानयोरनुचराः स्वातिचारणपद्मप्रभासाख्यव्यंतरदेवा निवसंति ॥ ७१९॥
इदानीं हिमवदादिकुलगिरीणां विजयार्धाणां चोपरि स्थितकूटानां संख्यादिकमाचष्टे;एक्कारसट्ठणवणव अद्वेक्कारस हिमादिकूलाणि ।। वेयड्डाणं णवणव पुव्वगकूलम्हि जिणभवणं ॥ ७२० ॥
एकादशाष्ट नव नव अष्टैकादश हिमादिकटानि ।
विजयार्धानां नव नव पूर्वगकूटे जिनभवनानि ॥ ७२० ॥ एक्का । एकादश १९ अष्ट ८ नव ९ नव ९ अष्ट ८ एकादश ११ प्रमितानि यथासंख्यं हिमवदादिकुलपर्वतोपरि स्थितकूटानि विजयार्धानां तूपरि नव ९ नव ९ कूटानि । तत्र पूर्वदिग्गतकूटे जिनभवनानि संति ॥ ७२०॥
अथ उक्तकूटानां नामादिकं गाथादशकेन निगदति;कमसो सिद्धायदणं हिमवं भरहं इला य गंगा य । सिरिकूडरोहिदस्सा सिंधु सुरा हेमवदय वेसवणं ।७२१॥
क्रमशः सिद्धायतनं हिमवान् भरतं इला च गंगा च। श्रीकूटं रोहितास्या सिंधुः सुरा हैमवतकं वैश्रवणं ॥ ७२१ ॥
कमसो । क्रमशस्तेषां नामानि सिद्धायतनं हिमवान् भरतं इला च गंगा च श्रीकूटं रोहितास्या सिंधुः सुरा हैमवतकं वैश्रवणं ॥ ७२१ ॥ पढमे जिणिंदगेहं देवीओ जुवदिणामकूडेसु । सेसेसु कूडणामा वेंतरदेवावि णिवसंति ॥७२२॥