SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ૨૮૦ त्रिलोकसारे र्गत्य सीतासीतोदयोः प्रविष्टे । रक्तारक्तोदे द्वे निषधपर्वतमूलस्थितकुंडान्निसृत्य सीतासीतोदयोः प्रविष्टे ॥ ६९२ ॥ दसदसपणोत्ति पण्णं तीसं दसयं च रुप्पगिरिवासा। खयराभिजोग सेढी सिहरे सिद्धादिकूलं तु ॥ ६९३ ॥ दश दश पंचांतं पंचाशत् त्रिंशत् दशकं च रूप्यगिरिव्यासा । खचराभियोग्या श्रेणी शिखरे सिद्धादिकूटं तु ॥ ६९३ ॥ दस । तस्य विजयार्धस्य दश योजनोत्सेधा प्रथमा श्रेणी पंचाशद्योजनसमव्यासा । तत उपरि दशयोजनोत्सेधा द्वितीया श्रेणिस्त्रिंशयोजनसमव्यासा, तत उपरि पंचयोजनोत्सेध उपरिमशिखरो दशयोजनव्यासः । तत्र प्रथमोभयतटगतश्रेण्यां खचरा निवसंति, द्वितीयायामाभियोग्याः शिखरे तु सिद्धादिनवकूटानि संति ॥ ६९३ ॥ ___ अथ तत्रैव द्वितीयादिश्रेणौ विशेषमाह;सोहम्मआभिजोग्गगमणिचित्तपुराणि बिदियसेढिम्हि । वेयडकुमारवई सिहरतले पुण्णभद्दक्खे ॥६९४ ॥ सौधर्माभियोग्यगमणिचित्रपुराणि द्वितीयश्रेण्याम् । विजयार्धकुमारपतिः शिखरतले पूर्णभद्राख्ये ॥ ६९४ ॥ सोहम्म । तत्रैव द्वितीयायां श्रेण्यां सौधर्मसंबंध्याभियोग्यानां मणिमयानि विचित्रपुराणि संति । तस्य शिखरतले पूर्णभद्राख्ये कूटे विजयार्धकुमारपतिरस्ति ॥ ६९४ ॥ अथ तत्र प्रथमश्रेण्योः स्थितविद्याधरनगराणां संख्यां तन्नामानि च पंचदशभिर्गाथाभिराह;पणवण्णं पणवण्णं विदेहवेयडपढमभूमिम्हि । णयराणि पण्ण सट्ठी जंबूउभयंतवेयड्डे ॥ ६९५॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy