________________
२७२
त्रिलोकसारे
तो । ततश्चंद्रमालः सूर्यमालो नागमालो देवमाल इति चत्वारोऽपरविदेहसीतोदोत्तरदिस्थवक्षाराः । गंभीरमालिनी फेनमालिनी ऊर्मिमालिनीति तिम्रस्तत्रस्थसरितः ॥ ६६९ ॥ हेममया वक्खारा वेभंगा रोहिसरिसवण्णणगा। तासिं पवेसतोरणगहे णिवसंति दिक्कण्णा ॥ ६७० ॥
हेममया वक्षाराः विभंगा रोहितसदृशवर्णनकाः ।
तासां प्रवेशतोरणगेहे निवसति दिक्कन्याः ॥ ६७० ॥ हेम । ते वक्षारा: हेममया, विभंगनद्यो रोहितसदृशवर्णनकाः । यथा रोहिन्निर्गमादौ व्यासादयस्तथात्रापि नदीनिर्गम ३५ प्रवेसव्यासौ १२५ । परिवारनद्यः २८००० निर्गमे प्रवेशे च तोरणोत्सेधः १८ ६।१८७१ ज्ञातव्यः । तासां निर्गमप्रवेशतोरणोपरिमगेहे दिक्कन्या निवसति ॥६७० ॥
अथ तद्वक्षाराणामुपरिस्थदेवानाह;वीसदिवक्खाराणं सिहरे तत्तब्बिसेसणामसुरा । चिट्ठति तण्णगाणं पुह कंचणवदियावणेहिं जुदा।।६७१॥
विंशतिवक्षाराणां शिखरे तत्तद्विशेषनामसुराः ।
तिष्ठति तन्नगानां पृथक् कांचनवेदिकावनैः युताः ॥ ६७१ ॥ वीस । गजदंतसहितविंशतिवक्षाराणां शिखरे तत्तद्वक्षारपर्वतनामानः सुरास्तिष्ठति । ते च नगाः पृथक पृथक् कांचनवेदिकाभिर्वनैश्च युक्ताः६७१ ___ इदानीं देवारण्यानां स्थानमाह;-- पव्ववरविदेहंते सीतदु दुत डेसु देवरणाणि । . चारि लवणुवहिपासे तव्वेदी भद्दसालसमा ॥ ६७२॥
पूर्वापरविदेहांते सीताद्वयोः द्वितटेषु देवारण्यानि । चत्वारि लवणोदधिपार्वे तद्वेदी भद्रसालसमा ॥ ६७२ ॥