________________
२६४
त्रिलोकसारे
सेणामहत्तराणं बारसमे पच्छिमम्हि सत्तेव । मुक्खजुदा परिवारा पउमादो पंचयज्झहिया ॥६४६ ॥
सेनामहत्तराणां द्वादशे पश्चिमायां सप्तैव । मुख्ययुताः परिवाराः पद्मभ्यः पंचाभ्यधिकाः ॥ ६४६ ॥ सेणा । द्वादशेंतराले पश्चिमायां दिशि सेनामहत्तराणां सप्तैव वृक्षाः मुख्यवृक्षयुताः सर्वे परिवारवृक्षाः पद्मसरसि स्थितपनेभ्यः पंचाभ्यधिकाः स्युः । चतुर्थातरालस्थाः चत्वारो देवीवृक्षाः मुख्य एकवृक्षः इत्येतैरभ्यधिकत्वात् १४०१२० ॥ ६४६ ।। दलगाढवासमरगय जोयणदुगतुंग सुत्थिरक्खंधो। पीठिय उवरिं जंबू वज्जदलडवासदीह च उसाहा॥६४७॥
दलगाढव्यासमरकतः योजनद्विकतुंगः सुस्थिरस्कंधः । पीठादुपरि जंबू वज्रदलाष्टव्यासदीर्घाः चतुःशाखाः ।। ६४७ ॥ दल । अर्धयोजनगाधस्तव्यासो मरकतमयः पीठादुपरि योजनद्वयोतुंगाः सुस्थिरस्कंधो जंबूवृशोस्ति । स्कंधादुपरि वज्रमय्योर्धयोजनव्यासा अष्टयोजनदीर्घाश्चतस्रः शाखाः संति ॥ ६४७ ।। णाणारयणुवसाहा पवालसुमणा मिदिंगसरिसफला । पुढविमया दसतुंगा मज्झेग्गे छच्चदुव्वासा ॥ ६४८॥
नानारत्नोपशाखः प्रवालसुमनाः मृदंगसदृशफलः ।
पृथ्वीमयः दशतुंगः मध्येग्रे षट्चतुर्व्यासः ॥ ६४८ ॥ णाणा । स च वृक्षो नानारत्नमयोपशाखः प्रवालवर्णसुमनाः मृदंगसदृशफलः पृथ्वीमयः दशयोजनतुंगो मध्येगे यथासंख्यं षट् ६ चतु ४ र्योजनव्यास: स्यात् ॥ ६४८ ॥