________________
त्रिलोकसारे
सौमनसद्विके वज्रं वज्रादिप्रभं सुवर्ण तत्प्रभं । लोहितांजनहारिद्रपांडुरा दलितदलमानाः || ६२० ॥
सोमण | सौमनसपांडुकयोर्यथासंख्यं चत्वारि चत्वारि वृत्तभवननामानि । तानि कानि ? वज्रवज्रप्रभसुवर्णसुवर्णप्रभनामानि लोहितांजन हारिद्रपांडुरनामानि । नंदनोक्तोदयव्यासादर्धतदर्धप्रमाणानि ॥ ६२० ॥ अथ तद्भवनाधिपान तदनितांश्चाह; - तब्भवणवदा सोमो यमवरुणकुवेरलोयवालक्खा । पुवादी सिं पुह गिरिकण्णा साद्धकोडितियं ॥६२१ ॥ तद्भवनपतयः सोमः यमवरुण कुवेराः लोकपालाख्याः । पूर्वादिषु तेषां पृथक् गिरिकन्यकाः सार्धकोटित्रयम् || ६२१ ॥ तब्भवण । तद्भवनाधिपतयः सोमयमवरुणकुवेराख्याः सौधर्मस्य लोकपालाः पूर्वादिदिक्षु तिष्ठति । तेषां पृथक् पृथक् साधकोटित्रयगिरिकन्यका भवति ॥ ६२१ ॥
२५६
अथ तेषामायुष्यादिकमाह; --
सोमदु वरुणदुगाऊ सदलदु पल्लत्तयं च देसूणं । ते रत्तहिकं चणसिदणेवत्थंकिया कमसो ॥ ६२२ ॥ सोमद्वयोः वरुणद्विकायुः सदलद्वि पल्यत्रयं च देशोनम् । ते रक्तकृष्णकांचनसित नेपथ्यांकिताः क्रमशः || ६२२ ॥
सोम । सोमयमयोर्वरुणकुवेरयोश्वायुर्यथासंख्यं अर्धसहितद्विपल्यं देशोन पल्यत्रयं च स्यात् । सोमादयो रक्तकृष्णकांचनसितवर्णालंकारांकिताः क्रमश: ॥ ६२२ ॥
अथ तेषां कल्पविमानसंबंधित्वमाह;
ते य सयंपहरिद्वजलप्पहवरगुप्पहा विमाणीसा । कप्पे सु लोयवाला पहुणो बहुसयविमाणाणं ॥ ६२३ ॥