________________
२५४
त्रिलोकसारे
भूमितः दशमभागः हीयते क्षुल्लकेषु नंदनादुवरि । शतवर्गः समरुद्रःसौमनसोपरि अपि एवमेव ।। ६१७ ॥
भूमिदो। भूमितो दशमांश हानौ यद्येकं योजनं स्यात्तदा सहस्रयोजनहानौ कियानुदय इति संपातिते शतवर्गरूपो लब्धोदयः १०००० क्षुल्लकमंदिरेषु ४ नंदनवनादुपरितमनसमरुंद्रोदयः स्यात् । सौमनसोपरिमसमरुंद्रोप्येवमेव स्यात् । मुखं १००० भूमौ ९४०० विशेषिते हानिः ८४०० क्षुल्लकमंदरोदयस्य ८४०० एतावद्धानौ ८००० एकयोजनोदयस्य किमिति संपात्या चतुरशीत्यापवर्तिते । एकयोजनहानिचयः स्यात् । एतद्धृत्वा एकयोजनोदयस्य एतावच्चये सहस्रयोजनोदयस्य किमिति संपात्यापवर्तिते चयः स्यात १०० । एतत्क्षुल्लकमेरोरग्रे वक्ष्यमाणभूव्यासे ९४०० मेलयेञ्चेत् चित्रातलव्यासः स्यात् । ९५०० एतस्मिन् तद्धानौ १०० अपनीतायां सत्यां ९४०० भूव्यासः स्यात् । एतावद्धानौ एकयोजनेदये एतावद्धानौ १०० किमिति संपातिते १००० तत्रस्थोदयः स्यात् । एतावदुदयस्य १ एतावद्धानौ 1 एतावदुदयस्य ५०० किमिति संपात्यापवर्त्य ५० तं भूव्यासे ९४०० अपनयेच्चेत् तदुपरितनव्यासः स्यात् ९३५० । एतावद्धानौ एकोदये १ एतावद्धानो ५० किमितिसंपातिते ५०० तत्रस्थोदयः स्यात् । एतावदुदयस्य १ एतावद्धानौ के एतावदुदयस्य १०००० किमिति संपात्यापवर्तितं लब्धं १००० अधस्तनव्यासे ९३५०अपनयेत् । ८३५० एतन्नंदनसमरुंद्रव्यासः स्यात् । समरुंद्रयोर्द्वयोरुत्सेधोनंतर एवानीतः स एतावदुदयस्य १ एतावद्धानो १० एतावदुदयस्य ४५५०० किमिति संपात्यापवर्तित ४५५० अधस्तनसमरुद्रव्यासे ८३५० अपनयेत् ३८०० समरुंद्रोपरिमक्षेत्रव्यासः स्यात् । एतावद्धानौ ० एकोदये १ एतवाद्धानौ ४५५० किमिति संपातिते ४५५०० तत्रस्थोदयः स्यात् । एतावदुदयस्य १ एतावद्धानौ एतावदुदयस्य १०००० किमिति संपात्यापवर्तिते १००० अधस्तनव्यासे