SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४२ त्रिलोकसारे जनव्यासा सती गिरिमूले दशयोजनावगाधषष्टियोजनविस्तारयुतं कुंडमस्ति ॥ ५८६ ॥ मज्झे दीओ जलदो जोयणदलमुग्गओ दुघणवासो। तम्मज्झे वजमओ गिरी दसुस्सेहओ तस्स ॥ ५८७ ॥ मध्ये द्वीपः जलतः योजनदलमुद्गतः द्विवनव्यासः । तन्मध्ये वज्रमयः गिरिः दशोत्सेधः तस्य ।। ५८७ ॥ मज्झे । तन्मध्ये जलादुपरि योजनार्धमुद्गतः द्विघन ८ व्यासः द्वीपोस्ति। तन्मध्ये वज्रमयो दशयोजनोत्सेधो गिरिरस्ति तस्य ॥ ५८७ ॥ भूमज्झग्गो वासो चदु दुगि सिरिंगेहमुवरि तव्वासो। चावाणं तिदुगेकं सहस्समुदओ दु दुसहस्सं ॥ ५८८॥ भूमध्याग्रो व्यासः चतुः द्विकं एकं श्रीगेहमुपरि तद्वयासः। चापानां त्रिद्विकैकं सहस्रमुदयस्तु द्विसहस्रम् ॥ ५८८ ॥ भूम । भूव्यासो मध्यव्यासो अग्रव्यासश्च यथासंख्यं योजनानि चत्वारि द्वि एकं स्युः । तस्य गिरेरुपरि श्रीगृहमस्ति । तद्भमध्याग्रन्यासश्चापानां त्रिसहस्रं द्विसहस्रमेकसहस्रं उदयस्तु द्विसहस्रं स्यात् ॥ ५८८ ।। पणसयदलं तदंतो तद्दारं ताल वास दुगुणदयं । सव्वत्थ धणू णेयं दोण्णि कवाला य वज्जमया॥५८९॥ पंचशतदलं तदंतरं तद्द्वारं चत्वारिंशत् व्यासं द्विगुणोदयं । सर्वत्र धनुः ज्ञेयं द्वौ कपाटौ च वज्रमयौ ॥ ५८९ ॥ पण । श्रीगृहाभ्यंतरावस्तारः पंचशततद्दलयोर्मिलितप्रमाणं स्यात् । तस्य श्रीगृहद्वारं चत्वारिंशयासं ४० तद्विगुणो ८० दयं स्यात् । सर्वत्र श्रीगृहमानं धनुः प्रमितं ज्ञेयं तस्य द्वौ कवाटी वज्रमयौ ॥ ५८९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy