________________
१०
त्रिलोकसारे
पर्यंत छित्वा विरलय्यायतत्रिकोणं संस्थाप्य पुनरपि मुखभूमिसमासार्धं मध्यफलमिति मध्यफलं साधयित्वा : ल. तत्पर्यतमूर्ध्वादधः छित्वा खंडद्वये चायतचतुरस्रं यथाभवति तथा क्रमहीन पार्श्वद्वये स्थापिते क्षेत्रस्य व्यासचतुर्थाहतत्वं भवति ॥ १७ ॥
---
स्थूलक्षेत्रफलप्रमाणयोजनस्य व्यवहारयोजनादिकं कुर्वन्नाह ;थूलफलं ववहारं जोयणमवि सरिसवं च कादव्वं । चउरस्ससरिसवा ते णवसोडस भाजिदा वÉ ॥ १८ ॥
स्थूलफलं व्यवहारं योजनमपि सर्षपश्च कर्तव्यः । चतुरस्त्रसर्षपास्ते नवषोडश भाजिता वृत्तम् ॥ १८ ॥
1
"
थूलफलं । स्थूलफलं ३××१००० एतत् । एकप्रमाणयोजनस्य पंचशत् व्यवहारयोजनानि इयतां प्रमाणयोजनानां किमिति त्रैराशिकविधिना व्यवहारयोजनं कर्तव्यं । अपिशब्दात् पुनरपि त्रैराशिकविधिनैव योजन प्र. १ क्रोश ४ । क्रोश १ दंड २००० | दंड १ हस्त ४ । हस्त १ अंगुल २४ परस्परगुणनेनैव कृतैकयोजनांगुलानि ७६८००० यवश्च ८ कर्तव्यानि सर्षपश्च ८ कर्तव्यः । घनराशेर्गुणकार भागहारौ घनरूपेण भवत इति न्यायेन एते सर्वे गुणकाराः घनरूपेण भवंति । एते सर्वे चतुरस्रसर्षपा भवति । त एते नव षोडश भक्ता वृत्तसर्षपा भवंति । हारस्य हारो गुणकोंशराशेः " इति षोडशापि गुणकारो भवति । तत्रैकाष्टकं द्विकरूपेण विरलय्य २२२ पंचशतानि गुणयित्वा तत्र राशौ स्थितानि सर्वाणि शून्यानि एकत्रिंशत्संख्याकानि पृथक् कर्तव्यानि । पुनरप्येकाष्टकं तथा विरलय्य तैरष्टत्रिकं ८ ८८ गुणयित्वा १६ १६ १६ प्राक्तनषोडशसहितचतुः षोडशानां परस्परगुणने पण्णट्ठि ६५५३६ अंगुलांकं त्रिभिर्भेदयित्वा बेसदछप्पण्णद्वयगुणने पण्णट्ठिर्जाता, पण्णटुयोर्द्वयोर्गुणने बादालमभूत् । परस्परगुणितत्रिकद्वयं ९ अवशिष्टाष्टकेन भागहारचतुर्भिः समं चतुर्भिरपवर्तितेन
1