________________
वैमानिकलोकाधिकारः।
२१३
षटयुगलशेषकल्पेषु त्रिस्त्रिषु च अनुदिीश अनुत्तरके । गेहोदयः षट्पंचशतं पंचाशदृणं दलं चरमे ॥ ५०७ ॥ छज्जुगल । षट्सु युगलेषु शेषकल्पे च त्रिस्त्रिषु अवेयकेषु अनुदिशायां अनुत्तरे चेति द्वादशस्थानेषु गेहो यःषट्छतयोजनानि पंचशतयोजनानि तत उपरि पंचाशदृणं कर्त्तव्यं । चरमे स्थाने उपांत्यार्द्ध ज्ञातव्यम् ॥ ५०७ ॥
अथ देवीनां गेहोत्सेधेन सर्वगृहाणां विस्तारायामौ कथयति;सत्तपदे देवीणं गेहोदयं पणसयं तु पण्णरिणं । सव्वागहदिग्धवासं उदयस्स य पंचमं दसमं ॥ ५०८॥
सप्तपदे देवीनां गेहोदयः पंचशतं तु पंचाशदृणं । सर्वगृहदैर्घ्यन्यासौ उदयस्य च पंचमो दशमः ॥ ५०८ ॥
सत्तपदे । छज्जुगलेत्यायुक्ते सप्तपदे देवीनां गृहोदयः आदौ पंचशतयोजनानि उत्तरत्रयं पंचाशत्पंचाशदृणं कर्तव्यं । सर्वेषां देवानां देवीनां अहदैर्ध्यव्यासौ यथासंख्यं उदयस्य पंचमभागो दशमभागश्च ॥ ५०८॥
कल्पेष्वग्रदेवीनां तत्परिवारदेवीनां च प्रमाणमाह;सत्तपदे अट्ठट्ठमहादेवीयो पुधादि मेकिस्से । ससमं सोलसहस्सा देवीओ उवरि अद्धद्धो ॥ ५०९ ॥
सप्तपदेषु अष्टाष्टमहादेव्यः पृथक् आदिमे एकस्य ।। स्वसमं षोडशसहस्रा देव्यः उपरि अर्धार्धाः ॥ ५०९ ॥
सत्तपदे । सप्तसु पदेष्वष्टाष्टमहादेव्यः । पृथक् प्रत्येकमादिमे प्रथमयुगले एकैकस्या देव्याः स्वेन समं षोडशसहस्रपरिवारदेव्यः, उपर्य‘र्द्धप्र. मिताः ८॥ ५०९॥