SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे wwwwww बारस । प्रागुक्तनवसु स्थानेषु आदौ अभ्यन्तरादिपारिषदानां संख्या यथासंख्यं द्वादशसहस्राणि चतुर्दशसहस्राणि षोडशसहस्राणि तत उपरि तत्र पृथक् पृथक् सहस्रद्विकोनसंख्या स्यात् । द्विसहस्रादुपरि अर्द्धाद्धक्रमो ज्ञातव्यः ॥ ४९८॥ साम्प्रतमितरप्राकारसंख्यां तदतरं प्रमाणं चाह;णयराणं बिदियादीपायारा पंचमोत्ति तेरसयं । तेसट्ठि अडकदी चुलसीदी लक्खाणि गंतूणं ।। ४९९ ॥ नगराणां द्वितीयादिप्राकारा पंचमातं त्रयोदश । त्रिषष्ठिः अष्टकृतिः चतुरशीतिः लक्षाणि गत्वा ॥ ४९९॥ णयराणं । नगराणां द्वितीयादिप्राकाराः पंचमपर्यन्तं यथासंख्यं त्रयो. दशलक्षाणि त्रिषष्टिलक्षाणि अष्टकृतिलक्षाणि चतुरशीतिलक्षाणि योजनानि गत्वा गत्वा तिष्ठन्ति ॥ ४९९ ॥ अथ तत्तदन्तरालस्थदेवान् गाथाद्वयेनाह;सेण्णावदितणुरक्खा पढमे विदियंतरे दु परिसतयं । सामाणियदेवा पुण तदिए णिवसंति तुरिए दु॥ ५००॥ सेनापतितनुरक्षाः प्रथमे द्वितीयांतरे तु पारिषदत्रयम् । सामानिकदेवाः पुनः तृतीये निवसति तुरीये तु ॥ ५०० ॥ . सेण्णा । सेनापतयस्तनुरक्षाश्च प्रथमेऽन्तराले तिष्ठन्ति । द्वितीयान्तरे तु पारिषदत्रयमस्ति । तृतीयान्तरे तु पुनः सामानिकदेवा वसन्ति । तुर्येऽन्तरे तु ॥ ५०० ॥ आरोहियाभियोग्गगकिन्भिसियादी य जोग्गपासादे । गामिय तदो लक्खदलं गंदणमिदि तव्विसेसणामाणि॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy