SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। २०७ षट्युगलशेषकल्पे तत्प्राकारोदयः योजनं त्रिशतं । पंचाशदूनं पंचमे त्रिंशदून उपरि विंशोनम् ॥ ४९० ॥ छज्जुगल । षट्युगले शेषकल्पे चेति सप्तस्थाने तन्नगरप्राकारोदयःआदौ योजनानां त्रिशतं उपरि पंचाशदूनं पंचमस्थाने त्रिंशदूनं तत उपरि विंशत्यूनं ज्ञातव्यं ॥ ४९० ॥ अथ तत्प्राकारगाधविस्तारावाह;गाढो वित्थारो विय पण्णासं दलकमं तु पंचमगे। चत्तारि तियं छटे चरिमे दुगमद्धसंजुत्तं ॥ ४९१ ॥ गाधो विस्तारः अपि पंचाशत् दलक्रमस्तु पंचमके । चत्वारि त्रीणि षष्टे चरमे द्विकमर्धसंयुक्तम् ॥ ४९१ ॥ गाढोवि। तत्प्राकारगाधो भूगतोदय इत्यर्थः । तद्विस्तारोपि चादौ पंचाशयोजनानि उपयुपरि अर्द्धक्रमः।तु पुनः पंचमस्थाने चत्वारि योजनानि षष्ठस्थाने त्रीणियोजनानि चरमस्थाने अर्द्धयोजनसंयुतं योजनद्वयं ज्ञातव्यं ॥ ४९१ ॥ · अथ तत्प्राकाराणां गोपुरस्वरूपं गाथाद्वयेनाह;पडिदिस गोउरसंखा तेसिं उदओविचउतिदोण्णिसया। तत्तो दुगुणासीदी बीसविहीणं तदो होदि ॥४९२ ॥ प्रतिदिशं गोपुरसंख्या तेषां उदयोपि चतुस्त्रिद्विशतानि । ततः द्विगुणाशीतिः विंशतिविहीनः ततः भवति ॥४९२ ॥ पडिदिस गो । प्रतिदिशं तत्प्राकाराणां गोपुरसंख्या तेषामुदयोऽपि पूर्ववत्सप्तसु स्थानेषु यथासंख्यं चतुःशतयोजनानि त्रिंशद्योजनानि ततःपरं द्विगुणाशीतियोजनानि ततःपरं विंशत्या हीनक्रमो भवति ॥४९२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy