________________
२०६
त्रिलोकसारे
कुम्मो ददुरतुरया तो कुंजर चंद सप्प खग्गी य । छगलो बसहोतत्तो चोद्दसमो होदि कप्पतरू ॥ ४८७ ॥ कूर्मो दर्दुरस्तुरगस्ततः कुंजरः चंद्रः सर्पः खड्गी च । छगलो वृषभः ततः चतुर्दशमो भवति कल्पतरुः || ४८७ ॥ कुम्मो | छायामात्रमेवार्थः ॥ ४८७ ॥ साम्प्रतमिन्द्राणां नगरस्थानं विस्तारं च गाथाद्वयेनाह; - सोहम्मादिचउक्के जुम्मचउक्के य सेसकप्पे य । सगदे विजुदिदाणं णयराणि हवंति णवयपदे ॥ ४८८ ॥ सौधर्मादिचतुष्के युग्मचतुष्के च शेषकल्पे च ।
स्वकदेवीयुतेंद्राणां नगराणि भवंति नवकपदे ॥ ४८८ ॥ सोहम्मादि । सौधर्मादिचतुष्के ब्रह्मादियुग्मचतुष्के आनतादीनां नगरेषु प्रत्येकं विंशतिसहस्रयोजनव्यास साधारणात्कल्पचतुष्टयमेकं स्थलं कृतं इति नवसु स्थानेषु स्वस्वदेवी युतेन्द्राणां नगराणि भवन्ति ॥ ४८८ ॥ चुलसीदीय असीदी बिहत्तरी सत्तरीय जोयणगा । जावय वीससस्सं समचउरस्साणि रम्माणि ॥ ४८९ ॥
चतुरशीतिः अशीतिः द्वासप्ततिः सप्ततिश्च योजनानि । यावद्विशसहस्रं समचतुरस्राणि रम्याणि ॥ ४८९ ॥
चुलसी । चतुरशीतिसहस्राणि अशीतिसहस्राणि द्वासप्ततिसहस्राणि सप्ततिसहस्राणि योजनानि यावद्विंशतिसहस्रं तावद्दशसहस्रोनं कर्त्तव्यं एतद्व्यासयुक्तानि नगराणि समचतुरस्राणि रम्याणि ॥ ४८९ ॥ अथ उक्तनगरप्राकारोत्सेधस्वरूपमाह; -- छज्जुगलसेसकप्पे तप्पायारुदय जोयणं तिसदं । पण्णासूणं पंचम तीसूणं उवरि वीसूणं ॥ ४९० ॥