SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०४ त्रिलोकसारे __ दोदो । सौधर्मादिषु दयोदयोः कल्पयोः ब्रह्मादिषु चतुषु चतुर्पु कल्पेषु मिलित्वा चतुर्षु स्थानेषु यथासंख्यं पंचवर्णाः खलु कृष्णवर्जचतुर्वर्णाः नीलोनत्रिवर्णाः रक्तोनद्विवर्णाः तत आनतादिषु सर्वेषु शुक्लैकवर्णविमानानि स्युः ॥ ४८१॥ इदानीं विमानाधारस्थानं निरूपयति;दुसु दुसु अट्ठसु कप्पे जलवादुभये पइट्ठियविमाणा। सेसविमाणा सव्वे आगासपइट्ठया होति ॥ ४८२॥ द्वयोः द्वयोः अष्टसु कल्पेषु जलवातोभये प्रतिष्ठितविमानाः। शेषविमानाः सर्वे आकाशप्रतिष्ठिता भवंति ॥ ४८२ ॥ दुसु दुसु । द्वयोयोः कल्पयोर्ब्रम्हादिष्वष्टसु कल्पेषु मिलित्वा त्रिस्थानेषु यथासंख्यं जलप्रतिष्ठितविमानाः वातप्रतिष्ठितविमानाः उभयप्रतिष्ठितविमानाः शेषविमानाः सर्वे आकाशप्रतिष्ठिता भवन्ति ॥ ४८२ ॥ अधुनेन्द्रस्थितं विमानं कथयति;छज्जुगलसेसकप्पे अहारसमझि सेढिबद्धरि । दोहीणकमं दक्खिणउत्तरभागलि देविंदा ॥ ४८३ ॥ षड्युगलशेषकल्पेषु अष्टादशमे श्रेणीबद्धे । द्विहीनक्रमं दक्षिणोत्तरभागे देवेंद्राः ॥ ४८३ ॥ छज्जुगल। षट्सु युगलेषु शेषकल्पे च यथासंख्यं प्रथमयुगले स्वचरमेन्द्रकसम्बन्धे अष्टादशमे श्रेणीबद्धे द्वितीयादौ च द्विहीनक्रमेण श्रेणीबद्ध १८।१६।१४।१२।१०।८।६ दक्षिणभागे दक्षिणेन्द्राः उत्तरभागे उत्तरेन्द्रास्तिष्ठन्ति ॥ ४८३ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy