________________
ज्योतिर्लोकाधिकारः।
१८९
अधियरणे। आधिकरणनिभा बरहारनिभा वीणाशृङ्गनिभा वृश्चिकसदृशा दुःकृतवापीनिभा हरिकुम्भनिभा गजकुम्भनिभा मुरजनिभा पतत्पक्षिनिभा ॥ ४४३॥ सेणागयपुव्वावरगत्ते णाबा हयस्स सिरसरिसा । चुल्लीपासाणणिभा कित्तियआदीणि रिक्खाणि॥४४४॥
सेनागजपूर्वावरगात्रे नावा हयस्य शिरसाःसदृशाः । चुल्लीपाषाणनिभाः कृत्तिकादीनि ऋक्षाणि ॥ ४४४ ॥ सेणोगय । सेनानिभा गजपूर्वगात्रनिभा गजापरगात्रनिभा नावानिभा हयस्य शिरःसदृशा चुल्लीपाषाणनिभास्ताराः कृत्तिकादीनि नक्षत्राणि भवन्ति ॥ ४४४ ॥
कृत्तिकादीनां परिवारतारा आह;एक्कारसयसहस्सं सगसगतारापमाणसंगुणिदं । परिवारतारसंखा कित्तियणक्खत्तपहुदीणं ॥ ४४५॥
एकादशशतसहस्रं स्वकस्वकताराप्रमाणसंगुणितम् । परिवारतारासंख्या कृत्तिकानक्षत्रप्रभृतीनाम् ॥ ४४५ ॥ एक्कारसय । एकादशोत्तरशताधिकसहस्रं ११११ स्वकीयस्वकीयताराप्रमाणसंगुणितं चेत् कृत्तिकानक्षत्रप्रभृतीनां परिवारतारासंख्याप्रमाणं. स्यात् ॥ ४४५॥
पंचप्रकाराणां ज्योतिष्कदेवानामायुःप्रमाणमाह;इंदिणसुक्कगुरिदरे लक्खसहस्सा सयं च सहपल्लं । पलं दलं तु तारे वरावरं पादपादद्धं ॥ ४४६ ॥