SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८४ त्रिलोकसारेआवृत्तिलब्धऋक्षं दशयुतं षष्ठाष्टदशमके एकोनं । विषुपे ऋक्षाणि पंचदशगुणपर्वयुततिथयः दिवसानि ॥ ४२९ ॥ आउट्टि । आवृत्तौ लब्धनक्षत्रं दशयुतं कृत्वा तत्र पष्ठाष्टमदशमावृत्तौ एकेनोनं चेत् विषुपे नक्षत्रं स्यात् । पंचदशभिर्गुणितानि आवृत्तिविषुपयोः पर्वाणि तत्तत्तिथियुतानि चेत् यथासंख्यमावृत्तिविषुपयोः समस्तदिनानि भवन्ति ॥ ४२९ ॥ विषुपे नक्षत्रानयनं प्रकारान्तरेण गाथाद्वयेनाह;आउट्टिरिक्खमस्सिणिपहुदीदो गणिय तत्थ अट्ठजदे। इसुपेसु होति रिक्खा इह गणणा कित्तियादीदो॥४३० आवृत्तिसं अश्विनप्रिभृतितः गणयित्वा तत्र अष्टयुते । विषुपेषु भवंति ऋक्षाणि इह गणना कृत्तिकादितः ॥ ४३० ॥ आउट्टि । आवृत्तिनक्षत्रमश्विनीप्रभृत्तितः गणयित्वा तत्र अष्टयुते सति विषुपेषु नक्षत्राणि भवन्ति । इह लब्धे गणनां कृत्तिकादितः कुर्यात् अष्टयुतराशिरधिकश्चेत् ॥ ४३० ॥ अहियंकादडवीसं छंडेज्जो बिदियपंचमट्ठाणे। एकं णिक्खिव छठे दसमे विय एक्कमवणिज्जो ॥४३१॥ अधिकांकादष्टविंशं त्याज्याः द्वितीयपंचमस्थाने । एकं निक्षिप षष्ठे दशमेपि च एकमपनेयम् ॥ ४३१ ॥ अहियं । अधिकांकादष्टविंशतिस्त्याज्या । द्वितीयपंचमावृत्तिस्थाने एक निक्षिप षष्ठे दशमेऽपि चावृत्तिस्थाने एकमपनेयं ॥ ४३१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy