________________
wwwwwwwwwwwww
१७८
त्रिलोकसारेशुक्लदशमीविशाखे तृतीया सप्तमीकृष्णरेवत्याम् । तुरीया तु पंचमी पुनः शुक्लचतुझं पूर्वफाल्गुन्याम् ॥ ४ १४ ।
सुक्कदसमी । शुक्लपक्षे दशम्यां विशाखायां तृतीयाद्यावृत्तिः स्यात् । कृष्णपक्षे सप्तम्यां रेवत्यां तुर्यावृत्तिस्तु स्यात् । शुक्लपक्षे चतुर्थी तिथौ पूर्वाफाल्गुन्यां नक्षत्रे पुन: पंचमी आवृत्तिः स्यात् ॥ ४१४ ॥ ___ एतावता किं स्यादिति चेत्;-- दक्खिणअयणे पंचसु सावणमासेसु पंचवस्सेसु । एदाओ भणिदाओ पंचणियट्टीउ सूरस्स ॥ ४१५ ॥
दक्षिणायने पंचसु श्रावणमासेषु पंचवर्षेषु ।
एताः भणिताः पंचनिवृत्तयः सूर्यस्य ॥ ४ १५ ॥ दक्खिणअयणे । दक्षिणायने पंचसु श्रावणमासेषु पंचवर्षेषु एताः पंचनिवृत्तयः सूर्यस्य भणिताः ॥ ४१५ ॥
उत्तरावृत्तिः कथमिति चेत्;माघे सत्तमि किले हत्थे विणिवित्तिमेदि दक्षिणदो। बिदिया सदभिससुके चोत्थीए होदि तदिया दु ॥४१६ ॥
माघे सप्तम्यां कृष्णे हस्ते विनिवृत्ति एति दक्षिणतः । द्वितीया शतभिषि शुक्ल चतुर्थी भवति तृतीया तु ॥ ४ १६ ॥ माघे सत्तमि । माघमासे सप्तम्यां तिथौ कृष्णपक्षे हस्तनक्षत्रे विनिवृत्तिमेति दक्षिणायनतः द्वितीयावृत्तिः शतभिषनक्षत्रे शुक्लपक्षे चतुर्थी तिथौ भवति तृतीया त्वावृत्तिः ॥ ४१६ ॥