________________
त्रिलोकसारे
rc ह
१६६
४८
१७०
मेलयेत् । मिलितेषु तत्पथव्यासः अष्टचत्वारिंशदे कषष्टिभागप्रमाणः सम्पूर्णो भवति एवं कृते अभ्यन्तरपथादारभ्य चतुःषष्टितमपथव्यासः द्वीपः षड्विंशत्या एकषष्टिभागैः ६ वेदिकागतैर्द्वाविंशत्या एकषष्टिभागैश्च सिद्धो भवति । द्वीपवेदिकां सन्धौ सूर्यस्य चतुःषष्टितमी वीथी भवतीति तात्पर्यं वेदितव्यम् । अतः पुरस्तात् वेदिकायोजनद्वय २ मन्तरमतिक्रम्य सूर्यस्य एकः पंथा ततः पुरस्तात् द्वापंचाशदेकषष्टिभागाः अवशिष्टा अन्तरे देयाः । एवं द्वीपवेदिका सन्धिपथव्यासगतद्वाविंशत्येकषष्टिभागेभ्यः ट्ठेने आरभ्य चतुर्योजनप्रमाणं वेदिकाक्षेत्रं समाप्तम् ॥ अथ लवणसमुद्रे एतावति क्षेत्रे ययेक उदयस्तदा बाह्यपथवर्जितसमुद्रचारक्षेत्रे ३३० एतावति कियन्त उदया इति सम्पात्यापवर्तिते लब्धोदया अष्टादशशतं ११८ शेषोदयांशाः सप्ततिशत भागाः एतेषु पूर्ववत्क्षेत्रीकृतेषु योजनांशाः सप्ततिरेकषष्टिभागाः । एतान् वेदिकासम्बन्धिपूर्वान्तरगतेषु द्विपंचाशदेकषष्टिसागरेषु ३ प्रक्षेप्य एकषष्ट्या विभक्ते लब्धं योजनद्वयं सम्पूर्णमन्तर प्रमाणं स्यात् । अतः परं रविबिम्ब सहितान्तरप्रमाणदिनगतिशलाका: चरमान्तरपर्यंता: अष्टादशोत्तरशतप्रमिताः ११८ सुगमाः तत्रोदयाश्च तावन्त एव ११८ ततः पुरस्तात् बाह्यपथव्यासे एक उदयः इति सर्वे मिलित्वा लवणसमुद्रे एकान्नविशं शतमुदया: ११९ एवं दक्षिणायने समस्तोदयाः व्यशीत्युत्तरशतं १९८३ अथोत्तरायणे लवणसमुद्रे रविविम्बाधिक चारक्षेत्रमिदं ३३० समच्छेदीकृत्य युक्ते एवं २०१७८ एतावत्क्षेत्रस्य १७० ययेका १ दिनगतिशलाका तदा एतावत्क्षेत्रस्य २०१८ कियन्त्यो दिनगतिशलाकाः इति सम्पात्य भक्ते ११८ शेषे १ अत्र रूपोनदिन गतिशलाकामात्रोदयाः ११७ कुतः बाह्यपथोदयस्य दक्षिणायनसम्बन्धित्वेनाग्रहणात् । शेषांशेषु क्षेत्रीकृतेषु अष्टचत्वारिंशदे कषष्टिभागान्पौरस्त्यपथव्यासे दद्यात् । तत्र एक उदयः एवं समस्तलवणसमुद्रे उत्तरायणे उदयाः अष्टादशोत्तरं शतं अवशिष्टाः सप्ततिरेकषष्टिभागाः पौरस्त्ये अन्तरे देयाः इति
११८
११८ ६ १
७०
७०