________________
१७०
त्रिलोकसारे
अडसीदट्ठावीसा गहरिक्खा तार कोडकोडीणं । छावट्टिसहस्साणि य णवसयपण्णत्तरिगि चंदे॥३६२॥
अष्टाशी त्यष्टाविंशतिः ग्रहऋक्षयोस्ताराः कोटिकोटीनाम् । षट्षष्ठिसहस्राणि च नवशतपंचसप्ततिरेकस्मिन् चंद्रे ॥ ३६२ ॥
अड । अष्टाशीत्यष्टाविंशति ८८।२८ ग्रहनक्षत्रयोः तारकाणां प्रमाणं षट्षष्ठिसहस्राणि नवशतपंचसप्ततिकोटीकोट्यः एकस्मिन चंद्रे परिवाराः३६२ __ अथाष्टाशीतिग्रहाणां नामान्यष्टाभिर्गाथाभिर्निरूपयति;कालविकालो लोहिदणामो कणयक्ख कणयसंठाणा। अंतरदो तो कवयव दुंदुभिरत्तणिहरूवणिब्भासो॥३६३॥ कालविकालो लोहितनामा कनकाख्यः कनकसंस्थानः । अंतरदस्ततः कवयवः दुंदुभिः रत्ननिभः रूपनिर्भासः ॥ ३६३ ॥ काल । छायामात्रमेवार्थः ॥ ३६३ ॥ णीलो णीलब्भासो अस्सस्सहाण कोस कंसादि। वण्णा कंसो संखादिमपरिमाणो य संखवण्णोवि॥३६४॥
नीलो नीलाभासोऽश्वोश्वस्थानः कोशः कंसादिः ।
वर्णः कंसः शंखादिपरिमाणः च शंखवर्णोपि ॥ ३६४ ॥ . णीलो । कंसादिः वर्णः कंसवर्णः शंखादिपरिमाणः शंखपरिमाण इत्यर्थः । शेषं छायामात्रं ॥ ३६४ ॥ तो उदय पंचवण्णा तिलो य तिलपुच्छ छाररासीओ। तो धूम धूमकेदिगिसंठाणण्णो कलेवरो वियडो॥३६५॥ तत उदयः पंचवर्णस्तिलश्च तिलपुच्छः क्षारराशिः। ततो धूमो धूमकेतुः एकसंस्थानः अज्ञः कलेवरो विकटः ॥३६॥ तो उदय । छायामात्रमेवार्थः ॥ ३६५ ॥