________________
लोकसामान्याधिकारः ।
३
""
पयोगी श्लोकः । “अपायप्राप्तिवाक्पूजा विहारास्थायिका तनु । प्रवृत्तय इति ख्याता जिनस्यातिशया इमे ॥ | अथवा नमस्यामि नमामि । कं । विमलतरनेमिचंद्र, नेमिश्चक्रधारा नेमिरिव नेमिः धर्मरथप्रवर्तकत्वात् । चंदयत्याह्लादयति भव्यजननयनमनांसीति चंद्र: इंद्रायसंभविरूपातिशयसंपन्न इत्यर्थः । नेमिश्वासौ चंद्रश्व नेमिचंद्रः विमलतरश्वासौ नेमिचंद्रश्व विमलतरनेमिचंद्रः । अथवा यथावस्थितमर्थं नयति परिछनत्तीति नेमिर्बोध: विगतं मलमज्ञानं यस्मादसौ विमलः अतिशयेन विमलो विमलतर: विमलतरश्वासौ नेमिश्च विमलतरनेमिः सकलविमल केवलज्ञानमिति यावत् तेनोप लक्षितश्चंद्रो विमलतरनेमिचंद्रः । अथवा विमलतरा रत्नत्रयपवित्रात्मानस्तयेव नेमयो नक्षत्राणि तेषां चंद्र इव चंद्रः स्वामी तं विमलतरनेमिचंद्रमंतिमतीर्थकरस्वामिनं चतुर्विंशतितीर्थकरं समुदायं वेत्यर्थः । किं विशिष्टं । त्रिभुवन चंद्रं । त्रिभुवनशब्देनात्र त्रिभुवनस्था विनेया ग्राह्याः तेषां चंद्र इव चंद्र: अज्ञानतमोविनाशकस्तं । भूयः किंभूतं । 'बल-किरणं' बलं जंबूद्वीपपरावर्तनलक्षणं सत्वं प्रतींद्रादिकं देवसैन्यं अतिमनोहरं रूपं वा विद्यते अस्येति बलः । अत्रोपयोगी . श्लोकः।“बलं शक्तिर्बलं सैन्यं बलं स्थौल्यं बलो बलः । बलं रूपं बलो दैत्यो बल: "काको बली बलः ।। " । गां स्वर्ग विंदति पालयतीति गोविंदो देवेंद्रः बलश्चासौ गोविंदश्च बलगोविंदः तस्य शिखेत्यादि शब्दार्थः सुबोधः । भक्तिभरविनतशतमखप्रमुखनिखिललेखशिखा मणिमयूखमाला रुणीकृतचरणनखकिरणमिति तात्पर्यार्थः । अथवा । णमंसामि । कं । 'विमलयरणेमिचंदं' पंचविंशतिमलरहितसमक्त्वसमन्वितत्वाद्विशुद्धज्ञानसमृद्धत्वान्निरतिचारचारुचरित्र पवित्रीभूतत्वाद्वा विमलतरः स चासौ नेमिचंद्राचार्यश्च विमलतरनेमिचंद्रस्तं नमस्यामीति चामुंडरायः स्वगुरुनमस्कारपूर्वकं शास्त्रमिदं प्रारभते । कथंभूतं तं । त्रिभुवनचंद्र चंद्र इव चंद्रो धर्मामृतस्यंदित्वात् । अथवा चंद्र कांचनं सर्वजनैरादेयत्वात् । त्रिभुवनानां चंद्रस्त्रिभुवन चंद्रस्तं । पुनरपि कथंभूतं । बल....... किरणं बलं द्वासप्ततिनियोगवर्तनलक्षणं हस्त्यादिकं वा अस्येति बलश्चामुंडरायः गां पृथ्वीं