________________
त्रिलोकसारे
श्रुतकेवलिना विरचितशब्दरचनाविशेषं तदर्थज्ञानविज्ञानसंपन्नवयंभीरुगुरुपर्वक्रमेणाव्युच्छिन्नतया प्रवर्तमानमविनष्टसूत्रार्थत्वेन केवलज्ञानसमानं करणानुयोगनामानं परमागर्म कालानुरोधेन संक्षिप्य निरूपयितुकामो भगवान्नेमिचंद्रसैद्धांतदेवश्चतुरनुयोगचतुरुदधिपारगश्चामुंडरायप्रतिबोधनव्याजेनाशेषविनेयजनप्रतिबोधनार्थ त्रिलोकसारनामानं ग्रंथमारचयन् तदादौ निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकं फलकुलमवलोक्य विशिष्टेष्टदेवतामभिष्टौति;बलगोविंदसिंहामणिकिरणकलावरुणचरणणहकिरणं विमलयरणेमिचंदं तिहुवणचंदं णमंसामि ॥१॥
बलगोविन्दशिखामणिकिरणकलापारुणचरणनखकिरणम् । . विमलतरनेमिचंद्रं त्रिभुवनचंद्रं नमस्यामि ॥ १ ॥
अस्यार्थः कथ्यते । णमंसामि नमस्यामि नमस्करोमि । कं । विमलयरणेमिचंदं विमलतरनेमिचंद्र, विगतं मलं द्रव्यभावात्मकं आत्मगुणघातिकर्म देहधातवो वा यस्मादसौ विमलः स्वयं विशुद्धेरुदयस्य परमकाष्ठामधिष्ठितः सन्नन्येषामप्यात्माश्रितानां कर्ममलक्षालनहेतुत्वादतिशयेन विमलो विमलतरः । अनेनापायातिशयः प्रकाशितः । नेमिचंद्रो द्वाविंशतीर्थकरपरमदेवः विमलतरनेमिचंद्रस्तं । कथंभूतं । 'त्रिभुवनचंद्र त्रिभुवनानां चंद्र इव चंद्रः प्रकाशकस्तं त्रिलोकानां स्वरूपोपदेशकं तत्स्वरूपपरिच्छेदकं वेत्यर्थः । एतेन वागतिशयः प्राप्त्यतिशयो वा प्रतिपादितः । अवसरोचितं वैतद्विशेषणं । त्रयाणां भुवनानां स्वरूपनिरूपणे बद्धव्यवसायस्याचार्यस्य शब्दज्योतिषा ज्ञानज्योतिषा च तत्स्वरूपप्रकाशकस्यैव नमस्कारकरणं समुचितंमेवेति । पुनरपि कथंभूतं । 'बलगोविंदशिखामणिकिरणकलापारुणचरणनखकिरणं' निजपादपद्मावनतपद्मपद्मनाभचूडाग्रसद्मपद्मरागमणिमरीचिजालवालातपमंजरीपिंजरितपदकंजनखमरीचिपुंजमित्यर्थः। अनेन भगवतः पूजातिशयः शेषातिशयाविनाभावी निवेदितः । अत्रो