________________
ज्योतिर्लोकाधिकारः।
१३३
निक्षिप्तेपि संपूर्ण न भवतीति एतावति ऋणे निक्षिप्ते संपूर्ण भवति । पार्श्वद्वयवर्तित्रिकोणक्षेत्ररहितशेषचतुरस्रक्षेत्र एकस्योपरि एकस्मिन् विपर्यासरूपेण निक्षिप्ते एवं । तस्योपरि पूर्वमानीते क्षेत्रे निक्षिप्ते एवं । अत्रत्यतृतीयांशं पृथक् स्थापयित्वा त्रिधा खंडिते सत्येवं । अस्मिन् खंडत्रये एकभुजरूपेण संधिते सत्येवं । तदपि तिर्यग्रूपेण दलयित्वा पार्वे संस्थाप्य संधिते एवं । ते पुनरपि तिर्यग्रूपेण दलयित्वा पृथक् स्थापिते क्षेत्रद्वये एवं । अत्रैकक्षेत्रं द्वितीयकणेन समानमिति तस्मै दातव्यं । त्रिभागरहितबृहत्क्षेत्र तिर्यग्रूपेण दलायेत्वा पार्वे संस्थाप्य संधिते एवं । तदपि पुनस्तिर्यग्रूपेण दलयित्वा ऊर्बभागे ६ संधिते सत्येवं । एवं समभुजकोटौ सत्यां आयामकदीत्युक्तं। त त्रायामकृतौ १४४ वेधस्य ४ वेधं ४ दर्शयित्वा प्रथमऋणक्षेत्रफलं २ अधुना स्फेट्यते इति हेतोः मुहदलहीनेत्युक्तं । तत्र मुखदलसमऋणहीनराशौ १४२ ऋणाय दत्वा अवशिष्टक्षेत्रफल ४ वेधसमं दर्शयित्वा अधुना संयुज्यत इति कृत्वा “मुहवास अद्ववग्गजुदा" इत्युक्तं । तत्र मुखव्यासार्धवर्गयुक्तराशिः १४६ एक मुरजखंडस्यैतावति १४६ द्वयोस्तथा खंडयोः किमित्यागतेन गुणकारद्वयेन गुण्यत इति दृष्ट्वा “बिगुणा" इत्युक्तं । एष द्विहतराशिः २९२ वेधेन चतुर्भिरपवर्तितेन ७३५ हन्यत इति “वेहेण हदा" इत्युक्तं। एतच्छंखावर्तसर्वक्षेत्रफलं ३६५ भवति । त्रींद्रियचतुरिंद्रियपंचेद्रियाणां खातफलं “भुजकोटि बधा" दित्यादिना नेतव्यं । एकेंद्रियादिखातफलानां अल्पबहुप्रदेशत्वज्ञापनार्थमिदमुच्यते । तत्रात्यल्पं. त्रींद्रियखातफलं १२ एकयोजनस्यैतावत्स्वंगुलेषु ७६८००० एतावतः ८३१३ किमिति संपात्य घनरूपराशित्वात्तद्गुणकारमपि घनरूपेणेव संस्थाप्यांगुलं कृत्वा ८३१५ । ७६८०००।७६८०००।७६८००० तथैवैकांगुलस्य सूच्यंगुलप्रदेशे एतावदं. गुलानां किमिति संपातेन सूच्यंगुलं कृत्वा सूच्यंगुलस्य प्रमाणांगुलत्वात् व्यवहाररूपप्राक्तनांगुलानां १९७६८०००।७६८०००१७६८००० प्रमाणांगुलकरणार्थ पंचशत ५०० व्यवहारांगुलानामेकस्मिन् प्रमाणांगुले एतावव्यवहारांगुलानां ९७६८०००।७६८०००।७६८००० किमिति सं