________________
त्रिलोकसारे
११४
अथ तदानीकसंख्यामाह; -
अट्ठावीससहस्सं पढमं दुगुणं कमेण चरिमोत्ति । सविंदणं सरिसा पइण्णयादी असंखमिदा ॥ २८२ ॥ अष्टाविंशसहस्राणि प्रथमं द्विगुणं क्रमेण चरमांतम् । सर्वेद्राणां सदृशाः प्रकीर्णकादयः असंख्यमिताः ॥ २८२ ॥ अट्ठावीस | अष्टाविंशतिः सहस्राणि प्रथमं प्रमाणं क्रमेण द्विगुणं चरमं यावत् । सर्वेद्राणां सदृशा: आनीकसंख्याः चतुर्निकायेषु प्रकीर्णकादयः असंख्यातमिताः ॥ २८२ ॥
अथ व्यंतरेद्राणां नगराश्रयद्वीपसंज्ञामाह; -- अंजणकवज्जधाउक सुवण्णमणोसिलकवज्जरजदेसु । हिंगुलि हरिदाले दीवे भोम्मिंदणयराणि ॥ २८३ ॥ अंजनकवज्रधातुकसुवर्णमनःशिलक वजरतत्रेषु ।
हिंगुलिके हरिताले द्वीपे भौमेंद्रनगराणि ॥ २८३ ॥
अंजणक । छायामात्रमेवार्थः ॥ २८३ ॥
अथ तन्नगरसंज्ञामायामं चाह; - भोमिंदकं मज्झे पहकंतावत्तमज्झ चरिमंका | पुव्वादिसु जंबुसमा पणपणणयराणि समभागे ॥ २८४ ॥ भौमेंद्रांकं मध्ये प्रभकांतावर्तमध्याः चरमांकाः ।
पूर्वादिषु जंबूसमानि पंच पंच नगराणि समभागे ॥ २८४॥ भोमिं । भौमेंद्रः किंनरस्तदेवांकं मध्ये पुरि प्रभकांतावर्तमध्या: भौमेंद्रांकचरमांकाः पूर्वादिषु जंबूद्वीपसमानि पंच पंच नगराणि समभागे ॥ २८४ ॥