________________
व्यंतरलोकाधिकारः।
१
तुण्हिय पवयणणामा इंदा तेसिं तु कालमहकाला। कमलकमलप्पहुप्पलसुदरिसणा होंति वल्लभिया॥२७२॥
तूष्णीकः प्रवचननामा इंद्रौ तेषां तु कालमहाकालौ ।
कमलाकमलप्रभोत्पलामुदर्शना भवंति वल्लभिकाः ॥ २७२ ॥ तुण्हिय । तूष्णीकः प्रवचननामा १४ इंद्रौ तेषां तु कालमहाकालौ कमला कमलप्रभा उत्पला सुदर्शनिका एतास्तयोर्वल्लभिकाः ॥ २७२ ॥
अथ पुनरिंद्रसंज्ञामेव पृथग्गृह्णाति गाथाद्वयेनाह;किंपुरुस किंणरा सप्पुरुसमहापुरुसणामया कमसो। महकायो अतिकायो गीतरती गीतयसणामा॥२७३॥
किंपुरुषः किन्नरः सत्पुरुषः महापुरुषनामा क्रमशः ।
महाकायः अतिकायः गीतरतिः गीतयशोनामा ॥ २७३ ॥ किंपुरुस । छायामात्रमेवार्थः ॥ २७३ ॥ तो माणिपुण्णभद्दा भीममहाभीमया सुरूवा य । पडिरूवो काल महाकालो भोम्मेसु जुगलिंदा ॥२७४॥
ततो माणिपूर्णभद्रौ भीममहाभीमौ सुरूपश्च ।
प्रतिरूपः कालः महाकाल: भौमेषु युगलेंद्राः ॥ २७४ ॥ तो । ततो माणिभद्रः पूर्णभद्रः भीमः महाभीमः सुरूपश्च प्रतिरूपः कालो महाकालः एते सर्वे भौमेषु युगलेंद्राः ॥ २७४ ॥
अथ किंपुरुषादींद्राणां गणिकामहत्तरीर्गाथाचतुष्टयेन कथयति;-- . गणिकामहत्तरीयो इंदं पडि पल्लदलठिदी दो दो । मधुरा मधुरालावा सुस्सर मउभासिणी कमसो॥२७५॥