________________
व्यंतरलोकाधिकारः।
१०५
जगत्प्रतरे भक्ते=४।६५-८१।१० शू. । व्यंतराणां जिनगेहप्रमाण स्यात् ॥ २५० ॥
अथ व्यंतराणां कुलभेदं निरूपयति;-. किंणरकिंपुरिसा य महोरगगंधव्व जक्खणामा य । रक्खसभूयपिसाया अट्ठविहावेंतरा देवा ॥ २५१ ॥
किंनरकिंपुरुषौ च महोरगगंधर्वयक्षनामानः च ।
राक्षसभूतपिशाचाः अष्टविधा व्यंतरा देवाः ॥ २५१॥ किंणर । छायामात्रमेवार्थः ॥ २५१ ॥
अथ तेषां शरीरवर्ण निरूपयति;-- तेसिं कमसो वण्णो पियंगुफलधवलकालयसियामं । हेमं तिसुवि सियाम किडं बहुलेवभूसा य ॥ २५२॥
तेषां क्रमशः वर्णाः प्रियंगुफलधवलकालश्यामाः । हेमः त्रिष्वपि श्यामः कृष्णः बहुलेपभूषा च ॥ २५२ ॥
तेसिं । तेषां क्रमशः शरीरवर्णाः प्रियंगुफलधवलकालश्यामा हेमवर्णस्त्रिष्वपि श्यामवर्णः कृष्णवर्णः । ते देवा बहुलेपभूषणाः ॥ २५२ ॥ __ अथ तेषां चैत्यतरुभेदमाह;तेसिं असोयचंपयणागा तुंबुरुवडो य कंटतरू । तुलसी कदंबणामा चेत्ततरू होंति हु कमेण ॥ २५३ ॥
तेषां अशोकचंपकनागाः तुंबुरुवटाश्च कंटतरुः ।
तुलसी कदंबनामा चैत्यतरवो भवंति खलु क्रमेण ॥ २५॥ तेसिं । नागा नागकेसर इत्यर्थः । शेषं छायामात्रं ॥ २५३ ॥