SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे सप्तैव च आनीकाः प्रत्येकं सप्तसप्तकक्षयुताः । प्रथमं स्वसामानिकसमं तद्विगुणं चरमकक्ष इति ॥ २३० ॥ सत्तेव । सप्तैवानिकाः प्रत्येकं सप्तसप्तकक्षयुताः प्रथमानीकं स्वसामानिकसमं तद्द्विगुणं चरमकक्षं यावत् ॥ २३० ॥ ___ अथ गुणोत्तरक्रमेणागतसप्तानीकधनानयने प्रयुक्तमिदं गुणसंकलितसूत्रम्;पदमेत्ते गुणयारे अण्णोण्णं गुणिय स्वपरिहीणे । रूऊणगुणेणहिए मुहेण गुणियम्मि गुणगणियं ॥२३१॥ पदमात्रान् गुणकारान् अन्योन्यं गुणयित्वा रूपपरिहीणे । रूपोन गुणेन हृते मुखेन गुणिते गुणगणितम् ॥ २३१ ॥ पद । पदमात्रगुणकारान् २।२।२।२।२।२।२ अन्योन्यं संगुण्य लब्धे १२८ रूपेण परिहीणे १२७ रूपोनगुणेन हृते १२७ मुखेन ६४००० गुणिते सति ८१२८००० गुणसंकलितधनमायाति । एतस्मिन् सप्तभिर्गुणिते ५६८९६००० सप्तानीकसमस्तधनमायाति। एवं वैरोचनादिषु ज्ञातव्यं । अस्य करणसूत्रस्य वासना उदाहरणांतरेण दर्श्यते । आदि २ गुणोत्तर ५ गच्छ ४ अस्य न्यासः २।५।५।५।१ अस्य समस्तधनं पदमेत्तेत्यानीतं ३१२ ऋणन्यासः २।५।५।५।३। तद्यथा । आदेरात्मप्रमाणे एकस्मित्रूपे २।१ रूपोनगुणोत्तरगुणितमादिमात्र २।४ ऋणप्रक्षेपणे अंकस्यांकसदृशं दर्शयित्वा असदृशस्थाने मेलयेत् । २।५ इंदं द्वितीयधने योजने अंकस्यांकसदृशं दर्शयित्वा असदृशस्थाने उपरितनात्मप्रमाणैकरूपे अधस्तनात्मप्रमाणैकरूपं युंज्यात् २५।२ अत्र द्विरूपोनगुणकारगुणितगुणघ्नमादि २५।३ ऋणं निक्षिप्य २५५ इदं तृतीयधने युंज्यात् । २५५२ । अत्र द्विरूपोनगुणघ्नगुणकारवर्गगुणितमादि २५५३ ऋणं निक्षिप्य २५५५ चतुर्थधने युंज्यात् २५५५२ । अत्र द्विरूपोनगुणनगुणकारघनगुणितमादि २५५५३ ऋणं
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy