________________
: १६ :
तस्त्वन्यायविभाकरे
[ प्रथमकिरणे
परमाणौ अवयवबहुत्वमव्याप्तमिति वाच्यम् प्रदेशावयवबहुत्व समानाधिकरणद्रव्यत्वव्याप्यधर्मवत्त्वस्य तदर्थत्वात् तादृशो धर्मः पुद्गलत्वं परमाणवपीति नाव्याप्तिः, कालेऽतिव्याप्तिवारणाय बहुत्वान्तम् । पर्यायार्थिकनयप्राधान्येनायमर्थ आहतः, वस्तुतस्तु तस्य द्रव्यावयवैर्निरवयवत्वेऽपि ' एकरसगन्धवर्णो द्विस्पर्शश्चाणुर्भवतीति स्वशास्त्रप्रसिद्ध्या भावावयवैस्सावयवत्वमक्षतमेव । एवं जीवादीनां पञ्चानां अरूपित्वममूर्त्तत्वं, धर्मादिचतुर्णामेकद्रव्यत्वं निष्क्रियत्वं जीवादीनां त्रयाणां लोकाकाशस्य चासंख्येयप्रदेशत्वं संख्ये या संख्ये यानन्तान्यतमप्रदेशत्वं पुद्गलानां, जीवपुद्गलानान्त्वनेकद्रव्यत्वं क्रियावत्त्वं च साधर्म्यं विज्ञेयमिति दिकू ॥ अथ पुण्यस्य प्रभेदानाह—
5
पुण्यस्य तु सातोच्चैर्गोत्रमनुष्यद्विक सुरद्विकपञ्चेन्द्रियजातिपञ्चदेहा10 दिमन्त्रितनूपाङ्गादिम संहननसंस्थान प्रशस्तवर्णचतुष्कागुरुलघुपराघातोच्छूवासातपोद्योत शुभखगतिनिर्माणत्रसदशकसुरनरतिर्यगायुस्तीर्थकर नामकर्मरूपेण द्विचत्वारिंशद्भेदाः ।
पुण्यस्येति । शारीरमानसानेकविधसुखपरिणामप्रापकं सातं वेदनीयकर्मोत्तरप्रकृतीदम्, लोकपूजितकुलप्रसवनिदानं कर्मोच्चैर्गोत्रं गोत्रकर्मोत्तरभेदः, मनुष्यद्विकं मनुष्यगतिमनुष्या15 नुपूर्वी रूपमेवमेव सुरद्विकमपि । अयमात्मा पञ्चेन्द्रिय इति व्यवहारनिमित्तं कर्म पञ्चेन्द्रियजातिः । पञ्चदेहा औदारिकवैक्रियाहार कतैजसकार्मणरूपाः । आदिमानां तिसृणामौदारिकवैक्रियाहारकाणां तनूनामङ्गोपाङ्गानि शिरःप्रभृतीन्यङ्गुल्यादीनि च तन्निर्वर्तक कर्माण्यादिमन्त्रितनूपाङ्गानि | आदिम संहननसंस्थाने, अस्थिबन्धनविशेषप्रयोजकं कर्म संहननं, आदिम संहननं वज्रर्षभनाराचसंज्ञं, शरीराकृतिनिर्वृत्तिप्रयोजककर्म संस्थानं, आदिमसंस्थानं समचतुरस्रनामे - 20 त्यर्थः । प्रशस्तवर्णचतुष्कं शुक्लरक्तपीताः प्रशस्तवर्णाः, प्रशस्तो गन्धरसुरभिः, कषायाम्लमधुराः प्रशस्तरसाः, मृदुलघुस्निग्धोष्णाः प्रशस्तस्पर्शा एषां लाभप्रयोजकानि कर्माणि चत्वारि प्रशस्तवर्णचतुष्कपदग्राह्याणि । शरीराणामगुरुलघुत्वपरिणामनियामकं कर्मा गुरुलघु । परत्रासादिजनकं कर्म पराघातं, उच्छ्वसनप्राप्तिहेतुरुच्छ्वासः । उष्णप्रकाशप्रापकं कर्मातपं, अनुष्णप्रकाशप्रापकं कर्मोद्योतं, शुभान्तरिक्षगमनहेतुः कर्म शुभखगतिः, अङ्गोपाङ्गादिप्रतिनियत25 स्थानवृत्तिताप्रयोजकं कर्म निर्माणं, त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसौभाग्यसुस्वरादेययश:कीर्तिरूपाणि दश कर्माणि त्रसदशकपदप्राह्माणि सुराश्च नराश्च तिर्यञ्चश्च सुरनर तिर्यश्वस्तेघामायूंषि, तत्प्रयोजककर्माण्यत्र सुरनरतिर्यगायूंषि । धर्म तीर्थप्रवर्त्तयितृपदप्रापकं कर्म तीर्थकर - नाम, एषां द्वन्द्वस्तत: कर्मपदेन कर्मधारयः, तादृशकर्माणि रूपं स्वरूपं यस्य पुण्यस्य तत्ता -