________________
ग्रन्थकारपरम्परापरिचयः नव्यप्राग्यसुनीतिरीतिसरणिं पालम्ब्य विद्यावता, ।' यद्येनारचि मालिकेन महता कारुण्यपुण्याब्धिना । तत्त्वाकासिविलासिखेलनकृते व्याख्यानवाचस्पतिः, ... ... जीयाभूमितले स निर्मलयशाः श्रीलब्धिसूरीश्वरः ॥ १०३ ॥
॥ युग्मम् ॥ वर्षे व्यङ्कनवौषधींपतिमिते तीर्थे वरे स्तम्भने,
तत्त्वन्यायविभाकरं सुललितं ग्रन्थं समारब्धवान् । ईलादुर्गपुरे समाप्तिमकरोत् तस्यैकसत्पद्धतेः, ___ सद्गुबाथैकमूलसूत्ररचनात् श्रीलब्धिसूरीश्वरः ॥ १०४ ॥ बाणाकाङ्कमृगाङ्कवत्सरमिते श्रीवैक्रमे तत्र वै, ____ व्याख्यामारभते स तस्य महतीं न्याप्रकाशामिधाम् । गुर्वर्था फलवर्धिनामनगरे व्याख्यां समापत्सुधीः,
सप्ताकाङ्कसुधामरीचिशरदि श्रीलब्धिसूरीश्वरः ॥ १०५ ॥ तच्छिष्यो भुवनादिनामविजयो-पाध्यायमुख्योऽभवत् ,
तच्छिष्येण मया प्रशस्तिशतकं भद्ररेणारचि । .. योत्राज्ञानवशात्प्रविस्मृतिवशाद् दुष्टप्रयोगः कृतः, . .
तं संशोध्य विवेकहंसविदुरैर्वाच्यं हि तद्धीधनैः ॥१०६ ॥