________________
: ११२ :
5
F
10
15
20
25
ग्रन्थकारपरम्परापरिचयः
दाक्षिण्यदाक्ष्य मुनितादिगुणालिपुष्टाः, तत्पट्टचैत्यशिखराग्रसुवर्णकुम्भाः । ये जैनशासननभः किरणेशितारः, दीक्षां ददुर्हरगिरिप्रमुखर्षिगणाम् ॥ ६२ ॥ स्वाचारमार्ग मुमुचुर्न धन्याः, ये ते वसन्तः श्लथसाधुमध्ये |
गच्छप्रभूतंप्रभुताविशिष्टाः, हेमादिमाः श्रीविमला अभूवन् ॥ ६३॥ युग्मम् ॥ आनन्दसूरिर्विमलान्तिमोऽभूत्, तत्पट्टदीव्यन्मणिहारनाथ: ।
समुद्धरन् साधुपथं श्लथं यः, तपस्विनिर्ग्रन्थसमाजराजः ॥ ६४ ॥ प्रभावयचैनमिदं सुशासनं, समर्थयन्नागमतश्वगूढताम् ।
प्रचारयन्देशनया स्वधर्मकं, प्रवर्धयन्विश्वतले यशोलताम् ॥ ६५ ॥ तत्पट्टभद्रासन राजतेजाः, आप्तोक्तिवेत्ता जयिदान सूरिः ।
प्रमादी जितवादिवादो, महाप्रतापी समभून्मुनीन्द्रः || ६६ ॥ युग्मम् || वैराग्यरत्नप्रभवावनीभृद्, वैदग्ध्यचूतस्य वसन्तमासः ।
सौभाग्य सौजन्यविहारभूमिः, क्रियाङ्गनाक्रीडनकान्तकुञ्जः ॥ ६७ ॥ तत्पट्टपद्माकरराजहंसः, कुपाक्षिकाज्ञानतमिस्रहंसः ।
कारुण्यसिन्धुः शमराजसौधः, श्रीहीर सूरिर्नतसूरिरासीत् ॥ ६८ ॥ स्याद्वाद सिद्धान्तमबाध्यमेनं, प्रमाणयन्युक्तिततिप्रयुक्तम् ।
समन्वयन्भिन्नमतानि विद्वान्, स्वकीयसिद्धान्तसुचारुदृष्ट्या ।। ६९ ।। मध्ये भाति यदीयवाणी, पानीयवत्कर्ममलं हरन्ती ।
औदाच्यगाम्भीर्यमयी सुचार्थी, माधुर्यधुर्या शुचितां वहन्ती ॥ ७० ॥
हिंसा परा श्रीमदकब्बरादीन् नृपाननेकान्यवनेषु मुख्यान् ।
,
दयामयाँ स्तान्विदधजगत्यां व्याख्यानधाराधरधारया यः ॥ ७१ ॥ श्रीसेन सूरिप्रमुखैः स्वशिष्यैः, विद्याश्चतस्रः समुपेयिवद्भिः ।
वज्री देवैः समुपास्यमानः, जगद्गुरुर्जङ्गमकल्पशाखी ॥ ७२ ॥ समागतान्वादिगजान्सुसज्जान्, वादस्थले सिंह इवाधिगर्जन् ।
· स हीरसूरिर्जिनशासनस्य, पुस्फोर जित्वा विजयध्वजं तान् ॥ ७३ ॥ श्रीसेन सूरिः शमिसेनताभाक्, तत्पढ्डचूडामणिताधरोऽभूत् ।
वादे विजेता वदवादिन्दम्, श्रीजैन सच्छा सनदण्डनाथः ॥ ७४ ॥