________________
द्वाराषि] न्यायप्रकाशसमलते
: ६०३ : उपपातद्वारमाह
पुलाकस्योपपात आसहस्रारं, बकुशप्रतिसेवनाकुशीलयोादशदेवलोके । कषायकुशीलनिर्ग्रन्थयोस्तु सर्वार्थसिद्धे । सर्वेषामपि जघन्यः पल्योपमपृथक्त्वस्थितिके सौधर्मे । स्नातकस्य निर्वाणे ॥
'पुलाकस्येति । उपपातः पूर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिः। आसहस्रारमिति, 5 उत्कर्षेणेदम् । बकुशप्रतिसेवनाकुशीलयोरिति, द्वादशदेवलोक इति, अच्युत इत्यर्थः । सर्वार्थसिद्ध इति, निर्ग्रन्थस्याजघन्योत्कृष्टत्वं बोध्यम् । सर्वेषामपीति, जघन्ययोग्यानां सर्वेषामित्यर्थः, तथा च पुलाकबकुशकुशीलानां जघन्येन सौधर्मे करूपे उपपात इति भावः, पल्योपमपृथक्त्वस्थितिक इति, पल्योपमस्य द्विप्रभृत्यानवभ्यः पृथक्त्वपरिभाषणात् तावस्थितिक इत्यर्थः । उत्कर्षेण तु पुलाकस्य तत्राष्टादशसागरोपमा स्थितिर्बकुशस्य द्वाविं. 10 शतिसागरोपमस्थितिः। एवं प्रतिसेवनाकुशीलस्यापि, कषायकुशीलस्य तु त्रयस्त्रिंशत्सागरोपमा स्थितिस्स्वस्वोत्कृष्टलोकेष्विति ज्ञेयम् ॥
स्थानद्वारमाह
पुलाककषायकुशीलयोर्लब्धिस्थानानि सर्वजघन्यानि।तौ युगपदसंख्येयानि स्थानानि गच्छतः। ततःपुलाको व्युच्छिद्यते।कषायकुशीलस्तु गच्छ. 15. त्यसंख्येयस्थानान्येककः । ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसंख्येयानि संयमस्थानानि गच्छन्ति, ततो बकुशो व्युच्छिद्यते ततोऽसंख्येयस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते ततोऽसंख्येयस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयस्थानानि गत्वा व्युच्छिद्यते, अत 30 ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयस्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्वस्थानं गत्वा स्नातको निर्वाणं प्रामोतीति दिक् ॥ इति पुलाकादिनिरूपणम् ॥
पुलाकेति । पुलाको बकुशप्रतिसेवनाकुशीलापेक्षया तथाविधविशुद्ध्यभावेन हीन एव स्यात् , कषायकुशीलापेक्षया हीनो वा स्यात् , अविशुद्धसंयमस्थानवृत्तित्वात् , तुल्यो वा 25 समानसंयमस्थानवृत्तित्वात् , अधिको वा स्याच्छुद्धतरसंयमस्थानवृत्तित्वात् , यतः पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यध इति भावः । युगपदसंख्येयानीति, तुल्याध्यवसायत्वादिति भावः । व्युच्छिद्यत इति हीनपरिणामत्वादिति भावः । तु शब्देन