________________
निर्मम्याः ]
न्यायप्रकाशसमलङ्कृते
: ५९९
इत्यर्थः । क्रोधादिभिरान्तरग्रन्थैस्सर्वैरपि केचिद्विप्रमुक्ताः केचिच्च सहिता भवन्ति, ये सहितास्ते पुलाकबकुशकुशीला उक्ताः । यस्तु सर्वैर्विप्रमुक्तस्सोऽपि तेषामुपशमावस्थां क्षयावस्थायाभ्युपगम्य द्विविधो भवतीत्याशयेनाह स चेति-उपशान्तमोहनिर्ग्रन्थमाह-संक्रमणेति, यो विद्य मानानपि कषायान्निगृह्णांति संक्रमणोद्वर्त्तनायोग्यं करोति, उदीयमानानेव प्रथमतो निरुणद्धि, स सतामपि कषायाणामसत्कल्पकरणात्सरागसंयतोऽपि उपशान्तकषायनिर्ग्रन्थो भवतीति 5 भाषः । क्षीणमोहनिर्ग्रन्थमाह क्षपितेति यस्तु संज्वलनकषायादीनामुदय निरोधोदय प्राप्तविफलीकरणाभ्यां क्षयकरण (योद्यतस्सन्नन्तरग्रन्थनिग्रहप्रधानो भवति स विशेषेणापुनर्भावेण रागस्य गतत्वाद्वीतरागः क्षीणमोहनिर्ग्रन्थ उच्यत इति भावः ॥
अस्यैव प्रकारान्तरेण भेदमाह -
द्विविधोऽपि स प्रथमाप्रथमचरमाचरमसमययथासूक्ष्म भेदात्पश्ञ्च- 10 विधः । अन्तर्मुहूर्त्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमय एव निग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः । अन्यसमयेषु विद्यमानोsप्रथमसमयनिर्ग्रन्थः । अन्तिमसमये विद्यमानश्वरमसमयनिर्ग्रन्थः । शेषेषु विद्यमानोऽचरमसमयनिर्ग्रन्थः । आद्यौ पूर्वानुपूर्व्या अन्त्यौ च पश्चानुपूर्व्या व्यपदिष्टौ । प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्त्त- 15 मानो यथासूक्ष्मनिर्ग्रन्थः ॥
द्विविधोऽपीति । उपशान्तक्षीण मोहरूपोऽपीत्यर्थः । प्रथमसमय निर्ग्रन्थमाहान्तर्मुहूर्तप्रमाण इति, उपशान्तमोहत्व क्षीण मोहत्वान्यतररूपनिर्ग्रन्थत्वस्यान्तर्मुहूर्त्त मानत्वात्तदूर्ध्वं परिणामान्तरपाप्तेरिति भावः । प्रथमसमय एवेति, उपशान्तमोहत्वादिरूपो यो भावो यत्समयावच्छेदेन जीवेनावाप्तपूर्व स्तादृशभाव विशिष्टस्तत्समयस्तस्य जीवस्याप्रथमसमयभाव उच्यते, 20 अप्राप्तपूर्वभावसम्बद्धसमयस्तु प्रथमसमय उच्यते तदानीमेव प्राप्तत्वात् उक्तश्न 'जो जेण पत्तपुव्वो भावो सो तेण अपढमो होइ । सेसेसु होइ पढमो अपत्तपुव्वैसु भावेसु' इति तत्र तादृशप्रथमसमयावच्छिन्नमिर्त्रन्थत्वात् प्रथमसमयनिर्ग्रन्थ इति भावः । प्राप्तपूर्व भावविशिष्टसमयवानप्रथमसमयनिर्ग्रन्थ इत्याहान्य समयेष्विति, अप्राप्तपूर्व भाव सम्बद्धसमयान्यत्तद्भावसम्बद्धसमयेष्वित्यर्थः । चरमसमयनिर्ग्रन्थमाहान्तिमसमय इति, चरमत्वं पर्यन्तवर्त्तित्वं 25 तच सापेक्षिकं, तथा च निर्ग्रन्थावस्थायाः यावन्तस्समयास्तेषु प्रान्तवर्तिसमय विशिष्टनिग्रन्थावस्थावान् चरमसमयनिर्ग्रन्थ इत्यर्थः । तत्पूर्ववर्त्तिसमय विशिष्ट निर्ग्रन्थावस्थावांस्त्वचरमसमयनिर्ग्रन्थ उच्यत इत्याह शेषेष्विति प्रान्तसमय पूर्ववर्त्तिसमयेष्वित्यर्थः । ननु प्रथमा