________________
लोकस्वरूपम् ]
न्यायप्रकाशसमलङ्कृते
: ५६५ :
बाहल्यं अशीतिसहस्राधिकैक लक्षयोजनमितम्, द्वितीयाया द्वात्रिंशत्सहस्रो त्तर लक्षप्रमाणं तृतीयाया अष्टाविंशतिसहस्रोत्तरलक्षप्रमाणं चतुर्थ्यां : विंशतिसहस्रोत्तरलक्षप्रमाणम् पञ्चम्या अष्टादशसहस्त्रोत्तरलक्षप्रमाणं षष्ठयाष्षोडशसहस्रोत्तरलक्षप्रमाणं सप्तम्यास्तु सहस्राष्टकोत्तरलक्षप्रमाणमिति ।
एतासां पृथिवीनां किं निरालम्बनत्वं सालम्बनत्वं वेत्यत्राह -
ताच प्रत्येकमनुक्रमतो घनोदधिघनवाततनुवात काशैर्लब्धप्रतिष्ठा वलयिताश्च ॥
5
ताश्चेति । पृथिव्यः पुनरित्यर्थः, न ह्यव्यवधानेन रत्नप्रभादयश्शर्कराप्रभादिषु प्रति - ष्ठिता नापि निरालम्बना अपि तु प्रत्येकं पृथिव्योऽनुक्रमं घनोदध्यादिषु प्रतिष्ठिता इति भावः, तथा च रत्नप्रभा घनोदधौ घनोदधिश्व घनवाते स च तनुवाते सोऽप्याकाशे ततोऽधश्श- 10 र्कप्रभा सापि घनोदधावित्येवं पृथिवीनां प्रतिष्ठितत्वमाकाशन्तु स्वस्मिन्नेव प्रतिष्ठितं नत्वाधारान्तरसमासादितप्रतिष्ठं, सर्वद्रव्याधारतया तत्सिद्धेः, तस्यैवाधाराधेयरूपत्वाच्चेति तात्पर्यार्थः । घनोदधीति, घनः स्त्यानी भूतोदक एवोदधिर्घनोदधिः, अयं बाहल्येन विंशतियोजनसहस्रपरिमिते मध्यभागे, घनः पिण्डीभूतो वातो घनवातोऽसंख्येययोजन सहस्रपरिमितो बाहुल्येन मध्यभागे, तनुश्चासौ वातश्च तनुवातोऽसंख्येययोजनसहस्रपरिमितो बाहल्येन 15 मध्यभागे, आकाशोऽवकाशान्तरं असंख्येययोजन सहस्रपरिमितं बाहल्येन मध्यभागे, एते हि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेश प्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरभूताः, तनुतरीभूत्वा च स्वस्वपृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत वामूनि वलयान्युच्यन्ते तेषामुच्चैस्त्वं स्वस्वपृथिव्यनुसारेणेत्याशयेनाह वलयिताश्चेति, घनोदध्यादिभिर्वलयाकारेण वेष्टिता इत्यर्थः ॥
व्यावर्णितस्वरूपेऽस्मिन् लोके रत्नप्रभादिपृथिवीषु प्रत्येक मूर्ध्वमधश्चैकैकं योजन सहस्रं
१. ईषत्प्राग्भारा तु पृथिवी आकाशप्रतिष्ठितैव तथा पृथिवीप्रतिष्ठितास्त्रसा: स्थावराः प्राणाः प्रायः, आकाशपर्वतविमानप्रतिष्ठिता अपि ते, शरीरादिपुद्गला जीवप्रतिष्ठाः जीवेषु तेषां स्थितेः, जीवाः कर्मप्रतिष्ठाः अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु कर्मसु संसारिजीवानामाश्रितत्वात् । नारकादिभावेन कर्मभिर्जीवाः प्रतिष्ठिता वा । अजीवा जीवसङ्गृहीताः मनोभाषादिपुद्गलानां जीवैस्संगृहीतत्वात् संग्राह्यसंग्राहकभावेनेदम् । पूर्वत्रत्वाधाराधेयभावेन । जीवा अपि कर्मसंगृहीताः संसारिजीवानामुदयप्राप्तकर्मवशवर्त्तित्वात् ये यद्वशास्ते तत्र प्रतिष्ठिता एवेति ॥
20