________________
सप्तमझी ]
भ्यायप्रकाशसमलते कथमभेदासम्भव इत्यत्राह-- . तथाहि नैकत्रैकदा विरुद्धनानागुणानामभेदसम्भवो धर्मिभेदात् । नापि स्वरूपेण, प्रतिगुणं स्वरूपभेदात, नाप्यर्थेन, स्वाधारस्यापि भेदात्, नवा सम्बन्धेन सम्बन्धिभेदेन सम्बन्धभेदात्, नाप्युपकारेण, तत्तजन्यज्ञानानां भेदात्, नापि गुणिदेशेन, तस्यापि प्रतिगुणमनेकत्वात् , नापि 5 संसर्गेण, संसर्गिभेदेन भेदात्, नापि शब्देन, अर्थभेदेन तस्य भेदादिति। तस्मादभेदमुपचर्य तद्धर्माभिन्नानेकयावद्धर्मात्मकवस्तुबोधजनकत्वं वाक्यानामिति ।।
तथाहीति । कालेन भेदमाह नैकत्रेति, एकाधिकरण इत्यर्थः, एकदेति एककालाव-.: च्छेदेनेत्यर्थः, विरुद्धनानागुणानामिति, परस्परं विरुद्धानां विविधानां गुणानामित्यर्थः । 10 असम्भवेनेति शेषः, तथा च परस्परं विरुद्धानामनेकगुणानामेककालावच्छिन्नैकाधिकरणवृत्तित्वस्यासम्भवेनेत्यर्थः। अभेदसम्भव इति, पूर्वस्थितननोऽत्र सम्बन्धः, मुख्यतयेत्यादिः तथा च मुख्यतया नाभेदस्य सम्भव इति भावः, तेन. गौणतयाऽभेदसम्भवेऽपि न क्षतिः । एकत्रैकदा विरुद्धगुणानां सत्त्वे गुणभेदेन गुणिभेदस्यावश्यकत्वान्न धम्यक्यं स्यादित्याह धर्मिभेदादिति, तावदाश्रयस्य तावत्प्रकारेण भेदात्, पर्यायभेदेन पर्यायिभेदस्यावश्यकत्वादिति 15 भावः । स्वरूपेण भेदासम्भवमाह नापि स्वरूपेणेति, विरुद्धनानागुणानामभेदसम्भव इत्यनुषज्यते, एवमुत्तरत्रापि । हेतुमाह प्रतिगुणमिति, तत्तद्गुणानां स्वस्वरूपस्य भिन्नत्वादिति भावः, न च घटादिगुणत्वं हि स्वरूपशब्देन विवक्षितं तच्च घटादिवृत्तिसकलगुणेषु समानमेवेति कथं स्वरूपभेद इति वाच्यम् , गुणभेदेन गुणिभेदस्यावश्यकतया प्रतिगुणं वस्तुभेदेन तद्गुणत्वस्यापि भेदादित्यत्र तात्पर्यात् । नापि गुणत्वधर्मत्वादिस्वरूपाणामभेद इति वाच्यम् , तथा 20 सति तेन रूपेण जगद्वृत्तिगुणानां धर्माणाञ्चाभेदप्रसङ्गेन परस्परभेदस्य विरोधप्रसङ्गादिति । अर्थेनाभेदवृत्त्यसम्भवमाह नाप्यर्थेनेति, हेतुमाह स्वाधारस्यापीति भेदादिति, नानात्वादित्यर्थः, अन्यथाऽनेकगुणाश्रयस्यैकत्वं विरुध्येतेति भावः, सम्बंधेनाभेदवृत्त्यसम्भवमाह नवासम्बन्धेनेति, कारणमाह सम्बन्धिभेदेनेति, प्रतियोग्यनुयोगिभेदेनेत्यर्थः, घटभूतलसंयोगात्पटभूतलसंयोगस्य भेददर्शनादिति भावः । उपकारभेदेनाभेदवृत्त्यसम्भवमाह नाप्युपकारेणेति, 25 बीजमाह तत्तजन्येति, तत्तद्गुणजन्येत्यर्थः, न केवलं ज्ञानमुपकारः किन्तु तत्तद्गुणविषयक ज्ञानं तथा च विषयभेदेन ज्ञानभेदावश्यकतया तत्तद्गुणविषयकज्ञानानां भेदेन नैकोपकार
१. यदनेकगुणाश्रयं तदनेकमिति व्याप्तेः। अन्यथा सकलगुणाश्रयस्यैकाधारत्वं प्रसज्येतेति तु परमार्थः ॥