SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविभाकरे [ तृतीयकिरणे .: यथा वा घटजातीयश्शब्दो घटजातीयस्य वाचको घटजातीयोऽर्थों घटजातीयशब्दवाच्य इति ज्ञानं वाच्यवाचकभावसम्बन्धविषयकम् ॥ यथावेति । ननु वाच्यवाचकभावविषयकं ज्ञानं कथं तर्क इति चेन्मैव इतरप्रमाणासाधारणत्वात् नहीदं प्रत्यक्षं, चक्षुरादिज्ञानस्य शब्दपरिहारेण रूपादावेव श्रोत्रज्ञानस्य च 5 रूपादिपरिहारेण शब्द एव प्रवर्त्तमानत्वात् । न च सकलशब्दार्थगोचरमन्यज्ञानमस्ति ततस्तर्क एव तद्विषयक इति ॥ ......कथमुपलम्भानुपलम्भौ तक प्रति कारणे भवत इत्यत्राह - व्याप्तिविषयकज्ञानश्च व्याप्तिज्ञानकाले सकृदुपलम्भानुपलम्भाभ्यां साक्षादेव जायते । क्वचित्तु पूर्वमसकृदुपलम्भानुपलम्भाभ्यामेव काला10 न्तरे साधनग्रहणप्रारदृष्टसाध्यसाधनस्मरणप्रत्यभिज्ञानपरम्परया जायते । उपलम्भश्च साध्यसत्त्व एव हेतूपलम्भ इति । अनुपलम्भश्च साध्याभावे हेतोरनुपलम्भ इति । साध्यसाधनग्रहणाग्रहणात्मकाविमौ प्रमाणमात्रेणाभिमतो॥ “व्याप्तिविषयकेति । साक्षादेवेति स्मरणप्रत्यभिज्ञानिरपेक्षमेवेत्यर्थः, तादृशक्षयोपशम15 विशेषबलात्तथा जायत इति भावः । परम्परया तर्कोत्पत्तिमाह क्वचित्त्विति । उपलम्भा नुपलम्भौ दर्शयति उपलम्भश्चेति साध्यसाधनयोग्रहणमिति भावः । अनुपलम्भश्चेति, साध्यसाधनयोरग्रहणमित्यर्थः, तथा च धूमाधिकरणे वह्निदर्शनं, वह्नयभावाधिकरणे धूमाभावदर्शनमित्ति द्वयोस्तात्पर्यार्थः । कथं तयोर्ग्रहणमित्यत्राह साध्यसाधनेति, तेनातीन्द्रियसाध्य हेतुकेस्थलेषु न दोष इति भावः ॥ 20. अथ वाच्यवाचकभावसम्बन्धज्ञानजननविधानमाह-- वाच्यवाचकभावसम्बन्धज्ञानन्तु कचिदावापोद्वापाभ्यां समुदेति । यथा प्रयोजकवृद्धप्रयुक्तगामानयेतिवाक्यश्रवणसमनन्तरगवानयनप्रवृत्तिमत्प्रयोज्यवृद्धचेष्टाप्रेक्षणजन्यैतद्वाक्यजन्यैतदर्थविषयकज्ञानवानयमि त्यनुमानज्ञानवतोऽपि बालस्य तत्तदर्थविशेष्यकतद्वाक्यघटिततत्तत्पदवा25 च्यत्वसंशयवतः कालान्तरीयप्रयोजकवृद्धप्रयुक्तगां नयाश्वमानयेति गोशब्दानयनशब्दविषयकावापोद्वापवद्वाक्यश्रवणजन्यप्रयोज्यवृद्धप्रवृत्तितो १. यथाऽस्ति तपनस्य गमनशक्तिर्गमनान्यथानुपपत्तेरित्यत्र गमनरूपो धर्म आप्तवचनात्, गमनशक्तिश्चोतानुमानार्वाक् नहि सिद्धः किन्तु यत्कार्य तच्छक्तिमत्कारणपूर्वकं. यथा घटादिः कार्यच गमनमित्येवरूपानुमानान्तरात् सिद्धयति, तयोरतीन्द्रियत्वात् इति भावः ।।
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy