________________
श्रावकधः म्यायप्रकाशसमलङ्कृते
: १३७ : चतुर्विधानि, सामायिकं देशावकाशिकं पोषधोपवासोऽतिथिसंविभागश्चेति, आये द्वे प्रतिनियतदिवसानुष्ठेये पुनः पुनरुच्चारणीये, अपरौ द्वौ प्रतिनियतदिवसानुष्ठेयौ । तत्र सामायिकं, समो रागद्वेषवियुक्तो यस्सर्वभूतान्यात्मवत्पश्यति तस्य प्रतिक्षणमपूर्वापूर्वकर्मनिर्जराहेतुभूताया विशुद्धेरायो लाभस्समायः स एव सामायिकम् , वाचिककायिकसावद्यकर्ममुक्तस्यातरौद्रध्यानरहितस्य च प्राणिनो घटीद्वयकालं यावत्समत्वं सामायिक, मनोवाकायचेष्टा- 5 परिहारमन्तरेण तदसम्भवाद्विशेषणद्वयम् । समस्य रागद्वेषविमुक्तस्य सत आयो ज्ञानादीनां लाभः प्रशमसुखरूपः, समानां वा मोक्षसाधनं प्रति सदृशसमर्थानां सम्यग्दर्शनज्ञानचारित्राणामायो लाभस्समायः, समाय एव सामायिकं, विनयादेराकृतिगणत्वात् ठक् प्रत्ययः । समायः प्रयोजनमस्येति वा सामायिकम् । सामायिकस्थइश्रावकोऽपि यतितुल्यो भवत्यत एव तदानीं देवपूजादौ नाधिकारः, सामायिके सति भावस्तवस्य प्राप्तत्वेन तदर्थ द्रव्यस्तवस्या- 10 नावश्यकत्वात् । सामायिकविधिस्तु तत्तद्वन्थेभ्यो ज्ञातव्यः । व्रतमिदं बहुनिर्जराफलकत्वेन प्रत्यहं श्रावकेणानुष्ठेयम् । इति प्रथमं शिक्षापदव्रतम् । देशावकाशिकं, दिग्वत. गृहीतस्य दिक्षरिमाणस्य यावज्जीवं संवत्सरं चतुर्मासी वा यावत् दशदिक्षु योजनशताद्यवधिकसंकल्पितगमनादेः मुहूर्त प्रहरदिनाहोरात्रादिं यावत् संकोचनं गृहशय्यास्थानादेः परतो निषेधनरूपम् । देशे दिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशोऽवस्थानं देशावकाशः, 15 सोऽत्रास्तीति देशावकाशिकम् । सर्वव्रतानां संक्षेपकरणावश्यकत्वेन तत्तव्रतसंक्षेपकरणस्य भिन्नभिन्नव्रतत्वे द्वादशसंख्याविरोधेन च व्रतमिदं अणुव्रतादिसंक्षेपकरणरूपमपीति सर्वव्रतसंक्षेपकरणरूपमिति भाव्यम् । तथैवैतदतिचारोऽपि तत्तदनुसार्यतिचाराणामुपलक्षको ज्ञेयः । यद्वा प्राणातिपातादिब्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसंक्षेपकरणे तु क्षेत्रस्य संक्षिप्तत्वात् प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच्च 20 दिग्बतसंक्षेपकरणस्यैव साक्षाद्देशावकाशित्वमुक्तमिति द्वितीयं शिक्षापदव्रतम् ॥ पोषधव्रतं, अष्टमीचतुर्दशीपूर्णिमाऽमावास्यालक्षणपर्व तिथिषु आहारशरीरसत्काराब्रह्मसावद्यकर्मणां त्यागः पोषधव्रतम् , पोषधोपवासस्य चतुर्विधत्वात् , तत्र धर्मस्य पोषं पुष्टिं धत्त इति पोषधः, स एव व्रतं पोषधव्रतं पोषधोपवास इत्युच्यते, प्रोक्तपर्वदिवसानुष्ठेयो व्रतविशेषः पोषधस्तेनोपवसनमवस्थानं पोषधोपवासः, अथवा पोषधोऽष्टम्यादिपर्वदिवसः, उपावृत्तदोषस्य 25 सतो गुणैराहारपरिहारादिरूपैः उप-सह वास उपवासः पोषधेषुपवासः पोषधोपवासः । व्युत्पत्तिमात्रमिदम् , प्रवृत्तिस्तु पोषधोपचासशब्दस्योपर्युक्ताहारादिचतुष्कवर्जनेषु । तथा च पोषधोपवास आहारशरीरसत्काराब्रह्माव्यापाररूपविषयभेदाच्चतुर्धा, पोषधशब्दोऽपि तत्र प्रयु
१८