________________
सटीकस्य तत्त्वन्यायविभाकरस्य
स्य संयमिवरेण्यस्य न्यायाम्भोनिधेः श्रीमद्विजयानन्दसूरीश्वरस्य प्रशिष्याः तदनन्यपट्टधरस्य शासनसार्वभौमस्य जैनाचार्यश्रीमद्विजयकमलसूरीश्वरस्य विनेयास्तत्पट्टालङ्कारभूताश्च सुविहितनामधेयाः श्रीमद्विजयलब्धिसूरीश्वराः, ये स्वकीयमनोज्ञकविताचातुर्येण निखिलजनचेतोहारिनिर्वाणसुखामृतरसस्यन्दिरुचिरव्याख्यानसरण्या च कविकुलकिरीटेति व्याख्यानवाचस्पतीति च दवीयसी पदवीमवापुः । एभिर्विरचिता अन्येऽपि संस्कृतभाषामया अनेके ग्रन्थाः पामरजनमनमलिनतामपनयन्तो जगति विश्रुता वरीवृतति । एषां प्रकृत्या शान्तस्वभावं निरुपमधर्मानुरागं जगति वर्तमानानामपि सर्वथा तद्व्यापारेष्वनासक्ततां सर्वदा शास्त्राध्यापनविरचनसंलीनताश्चावलोकयतः कस्य वा सचेतसस्तेषु गौरवधिषणा न जागृयात् । एषां जीवनचरित्रं विशेषतो बुभुत्सुभिर्मद्विरचितो भाषामयः कविकुलकिरीटाभिधानो ग्रन्थोऽवश्यं लोचनगोचरो विरचनीयः ॥
मानवगणतापापनोदकस्यास्य ग्रन्थस्य संशोधनकर्मणि विहितश्रमो मद्गुरुभ्राता श्रीविक्रमविजयः मच्छिष्यो भद्रङ्करविजयश्च जनसमाजस्योपकारक इत्यत्र नास्ति संशयलेशः । प्रकाशनकर्मणि कृतद्रव्यसहाया धनिकवर्गा अपि भगवतः शासनस्य सहायका एवेति । विशेषतस्तु काशीस्थविश्वविद्यालयन्यायाध्यापकानां तार्किकरत्नानां श्रीमच्छीशङ्करभट्टाचार्याणामन्तेवासी लब्धन्यायाचार्यप्रतिष्ठोऽस्मद्गुरुवर्याणां शिष्यमण्डलस्य विद्यया कृतसंस्कारो नारायणाचार्योऽस्मिन कर्मणि कदापि न विस्मरणीयो येन महत्साहाय्यं दत्तम् ॥ ___ तथा भूयांसमायासमङ्गीकृत्य संशोधकैः परिशीलितेऽप्यस्मिन् ग्रन्थे तेषां दृष्टिदोषात् अक्षरसंयोजकमुद्रकादिदोषाद्वा यत्र कचिदुपलभ्यमाना अशुद्धीरुपेक्ष्य गुणैकग्रहणा विपश्चिदपश्चिमाः समुत्सार्य मात्सर्य स्वयमेवास्मिन्नुररीकृतनयनसमर्पणायासा विचारामृततृप्ति भजन्तस्तेषां परिश्रमं फलेग्रहिं करिष्यन्त्येवेत्यवधारयन् सकलपदार्थतत्त्वज्ञं भगवन्तं जिनेश्वरमाराधयाम्यनेन व्यापारेणेति ॥
निवेदक:व्या. वा. आचार्यश्रीमद्विजयलब्धिसूरीश्वराणां चरणोपासकः
भुवनविजयोपाध्यायः