SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गीनिरूपणम् ( ८५ ) त्ववद्धटमाह । तथा च तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावा प्रतियोगिक्रमार्पितस्व परद्रव्याद्यवच्छिन्नास्तित्वना स्तित्वोभयविशिष्टसहार्पितस्वपरद्रव्याद्यवच्छिन्नास्तित्वनास्तित्वोभयधर्मविषयकावक्तव्यत्ववान् घट इति बोधः ॥ अत्र सर्वत्र घटस्य स्वरूपं अयं घट इति ज्ञानीयप्रकारताश्रयान्यूनानतिप्रसक्तं घटत्वमेव, तादृशप्रकारत्वानाश्रयं विशेष्यावृत्ति च पटत्वादिकं पररूपं, न तु तद्भिन्नत्वमात्रं द्रव्यत्वादीनां पररूपत्वापत्तेः : । घटादीनाञ्च पररूपादिनापि सत्त्वे पदार्थत्वव्याघातप्रसङ्गः, स्वपररूपग्रहणव्यवच्छेदाभ्यां हि पदार्थत्वं व्यवस्थाप्यम् ॥ एवं तन्निष्ठाः स्थौल्यादिधर्मवर्तमानकालीनपर्यापृथुवुध्नोदरायाकाररूपादिगुणघटनक्रियाकर्तृत्वादयः स्वरूपा अन्ये पररूपा बोध्याः ॥ एवं शुद्धं मृद्द्रव्यं घटस्य स्वद्रव्यं तद्भिन्नं स्वर्णादि परद्रव्यम् । तद्रूपेणापि घटादीनां सखे द्रव्यस्य प्रतिनियमो न स्यात् ॥ एवं घटस्य निजं क्षेत्रं भूतलादि परक्षेत्रं तद्भिन्नं 9
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy