SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ( ८२ ) तत्त्वन्यायविभाकरे वृत्तित्वैकसम्बन्धप्रतियोगित्वैको पकारकत्वैकदेशाव च्छिन्नवृत्तित्वैकसंसर्गप्रतियोगित्वैकशब्दवाच्यत्व-धर्मैः अस्तित्वेनाभिन्ना अनेके ये धर्मास्तदात्मकपदार्थबोधजनकत्वमपीति । सम्बन्धे कथञ्चित्तादात्म्यलक्षणे अभेदः प्रधानं भेदो गौणः, संसर्गे त्वभेदो गौणः भेदः प्रधानम् । तथा च भेदविशिष्टाभेदस्सम्बन्धः अभेदविशिष्टभेदस्संसर्ग इति विवेकः । अयञ्च पर्यायार्थिकनयस्य गुणभावे द्रव्यार्थिकनयस्य प्रधानभावे युज्यते ॥ द्रव्यार्थिकस्य गौणत्वे पर्यायार्थिकस्य प्राधान्ये त्वभेदस्योपचारः कार्योऽभेदासंभवात् । तथा हि नैकत्रैकदा विरुद्धनानागुणानामभेदसंभवो धर्मिभेदात् नापि स्वरूपेण, प्रतिगुणं स्वरूपभेदात् । नाप्यर्थेन, स्वाधारस्यापि भेदात् । नवा सम्बन्धेन, सम्बन्धिभेदेन सम्बन्धभेदात् । नाप्युपकारेण, तत्तज्जन्यज्ञानानां भेदात् । नापि गुणिदशेन, तस्यापि प्रतिगुणमनेकत्वात् । नापि संसर्गेण, संसर्गिभेदेन भेदात् । नापि शब्देन, अर्थभेदेन तस्य भेदादिति । तस्मादभेदमुपचर्य तद्धर्माभिन्नानेकयाबद्धर्मात्मकवस्तुबोधजनकत्वं वाक्यानामिति ॥ घटस्स्यादस्त्येवेति प्रथमं वाक्यमितरधर्माप्र
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy