SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अनुमाननिरूपणम् (७१) अविरुद्धनिषेधात्मको हेतुः प्रतिषेधसाधने स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरभेदेन सप्तधा॥ भूतलेऽत्र कुम्भो नास्ति दृश्यत्वे सति तत्स्वभावानुपलम्भादितित्यविरुद्धस्वभावानुपलब्धिरूपो निषेधात्मको हेतुः । अत्र शिशपा नास्ति वृक्षाभावादित्यविरुद्धव्यापकानुलब्धिः । नास्त्यत्र सामर्थ्यवहीजमकरानवलोकनादित्यविरुद्धकार्यानुपलब्धिः। नास्त्यत्र धूमो वयभावादित्यविरुद्धकारणानुपलब्धिः । न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदया। नुपलब्धेरित्यविरुद्धपूर्वचरानुपलब्धिः । नोदगाभरणिः मुहूर्तात्प्राक् कृत्तिकोदयानुपलम्भादित्यविरुद्धोत्तरचरानुपलब्धिः । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलम्भादित्यविरुद्धसहचरानुपलब्धिः ॥ विरुद्ध निषेधात्मको हेतुर्विधिप्रतीतौ कार्यकारणस्वभावव्यापकसहचरभेदेन पञ्चधा ॥ अत्र शरीरिणि रोगातिशयो वर्तते नीरोगव्यापारानुपलब्धेरिति साध्यविरुद्धारोग्यकार्यव्यापारानुपलब्धिरूपो निषेधहेतुः । अस्त्यस्मिन् जीवे कष्टमिष्टसंयोगाभावादिति साध्यविरुद्धसुखकारणानुपः लब्धिः। सर्व वस्त्वनेकान्तात्मकमेकान्तस्वभावानुः
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy