________________
अनुमाननिरूपणम्
( ६९ )
तस्य प्रत्यक्षप्रमाणात्, शब्दः परिणामीत्यादौ कालत्रयवर्तिशब्दधर्मिण उभयात् ॥
हेतुर्द्विविधो विधिस्वरूपः प्रतिषेधस्वरूपश्चेति । तथा विधिस्वरूपो हेतुर्द्विधा विधिसाधको निषेधसाधकश्चेति । एवं प्रतिषेधस्वरूपो हेतुरपि ॥
तत्र विधिसाधको विधिरूपो हेतुर्व्याप्यकार्यकारणपूर्वोत्तरसहचर भेदात् षोढा । विधिस्तु सदसदात्मके पदार्थे सदंशः, असदंशश्च प्रतिषेधः । प्रतिषेधश्वतुर्धा प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावभेदात् । यन्निवृत्तावेव कार्याविर्भावः स प्रागभावः । यथा घटं प्रति मृत्पिण्डः । यदुत्पत्तिनिबन्धनं कार्यविघटनं स प्रध्वंसाभावः । यथा घटं प्रति कपालकदम्बकम् । स्वरूपान्तरात् स्वरूपव्यवच्छेदोsन्योन्याभावः । यथा पटस्वभावाद्वस्वभावस्य । कालत्रयेऽपि तादात्म्य परिणतिनिवृत्तिरत्यन्ताभावः । यथा जीवाजीवयोः । सोऽयं प्रतिषेधः कथञ्चिदधिकरणाद्भिन्नाभिन्नः ।
विध्यात्मको हेतुः साध्याविरुद्धप्रतिषेध्यविरुद्धभेदेन द्विधा । एवं निषेधात्मकोsपि ।
तत्र शब्दः परिणामी प्रयत्नानन्तरीयकत्वादिति व्याप्यो विधिहेतुः । पर्वतो वह्निमान् धूमा