________________
प्र....स्ता....व....ना. ___ सुविदितमेवैतद्विवेचनाश्चितलोचनानां पक्षपातगन्धविधुराणां सहृदयानां लब्धवर्णाग्रेसराणां यदभ्यर्हणार्हिच्छासनं स्याद्वादरत्नप्रभाभासुरं दार्शनिकान्वेक्षणाध्वनि कियत्सामञ्जस्यमुपयातीति । एकान्तपिशाचिकावेशाविष्टा हि दर्शनान्तरीयाः कदापि नैकमपि वस्तु याथातथ्येन निर्णेतुं पारयन्तो परस्परविरोधिनिस्सारवाक्प्रपञ्चेन केवलं पामरान् सरलहृदयान् पातयन्ति निर्वृतिसुखनगरगमनमार्गात्सुललितात् । प्रत्यक्षेण पश्यन्तोऽपि अनुमानेनानुमिन्वन्तोऽपि शब्देन बुद्ध्यमाना अपि भङ्गयन्तरेण स्वयं जल्पन्तोऽपि वस्तुतत्त्वमनेकान्तं निस्तत्त्वकुतर्कवासनावासितमानसा भृशं प्रतिबोधितास्सन्तोऽपि न चेतयन्त इति किं ब्रूमः कर्मवैचित्र्य सौराज्यमेतेषाम् ॥
अनेकान्तवादोऽयं कचिदपि कथञ्चिदपि विरोधलेशेनाप्यनाक्रान्तः सौलभ्येन पदार्थतत्त्वप्रबोधनपटिष्ठस्सर्वज्ञेनत न कथश्चिदपि प्रतिपाद्यमानो भवितुमर्हतीति नैवात्र कस्यापि शङ्कातङ्कः । एतद्वादप्रधानेन जैनागमेन रत्नत्रयमेव परमनिर्वृतिसाधनाय प्रभवतीति प्रतिपादितम् । तत्त्वश्रद्धारत्नं ज्ञानरत्नं क्रियारत्नमिति रत्नत्रयम् । एवञ्च ज्ञानक्रियाभ्यां मोक्षः प्रतिपादितो भवति । तत्र रत्नत्रयविषया अनेके ग्रन्थाः प्राचीनाचार्यसंहब्धाः सुवि. शाला वरीवृतति । परं केचिनिगूढत्वाखालानां दुरवगाहाः केचन तत्त्वानामेव प्रतिपादकाः अन्ये ज्ञानानामेवापरे तु चारित्रस्यैव । अतो नैतेभ्योऽनायासेन बालानां ग्रहणं घटत इति मन्वानैर्दया