SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पुलाकादिनिरूपणम् (१२१) कुशीलयोनवमदशमदेवलोकयोः कषायकुशीलनिग्रन्थयोस्तु सर्वार्थसिद्धे । सर्वेषामपि जघन्यः पल्योपमपृथक्त्वस्थितिके सौधर्मे । स्नातकस्य निर्वाणे ॥ पुलाककषायकुशीलयोर्लब्धिस्थानानि सर्वजघन्यानि । तौ युगपदसंख्येयानि स्थानानि गच्छतः । ततः पुलाको न्युच्छिद्यते । कषायकुशीलस्तु गच्छत्यसंख्येयस्थानान्येककः । ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसंख्येयानि संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते ततोऽसंख्ययस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते ततोऽसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते। अत ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयस्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्वस्थानं गत्वा स्नातको निर्वाणं प्रामोतीति दिक् ॥ जिज्ञासूनां यथाशास्त्रं सम्यक्चरणमीरितम् । स्वरूपेण विधानेन सम्यग्ज्ञानाभिवृद्धये ॥ من رفرنك فك فك فك فك رفرفة ورنارفون J इति श्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तात्मभक्तिभरेण विजयलब्धिमूरिणा वि.E निर्मितः तत्वन्यायविभाकरस्समाप्तः Janamirmirmirmirmirmerana
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy