________________
(5) पात वांथी पूछेद ५श्ननो संस्कृतमा ४ा भापो.
पुरा किल आसीद् वृद्धः । मृत्युकालेऽपि तस्य प्राणा न गच्छन्ति । तदा तस्य पुत्रास्तमकथयन् ।
'हे तात ! युस्माकं केच्छा अद्याप्यपूर्णाऽस्ति येन युष्माकं प्राणा: सुखेन न गच्छन्ति ?' तदा वृद्धेनोदितम् - 'अस्त्युपदेशो यमदत्त्वा न परलोकं गन्तुं प्रत्यलोऽहम् ।'
तदा पुत्रा अवदन् ‘कः स उपदेशः ?' तदा वृद्धोऽवदत् - 'यष्टिभारम् आनयत ।' ते पुत्रा अञ्जसा तथा कृतवन्तः । अनन्तरं तेन वृद्धेन कथितम् 'हे पुत्राः ! यूयं पूर्णं यष्टिभारं त्रोटितुम् प्रयतध्वम् । सर्वैस्तथा प्रयतितम् ।
किन्तु न कोऽपि तं त्रोटितुं प्रत्यलोऽभवत् । ततो वृद्धोऽवदद् 'अधुना यष्टीरिमा: पृथक्कृत्य त्रोटितुं प्रयतध्वम् ।' एवं कृते तु सर्वास्ता अल्पेनैवाऽऽयासेन त्रुटिताः ।।
ततो वृद्धेनोदितम्, 'हे पुत्राः ! अनेन दृष्टान्तेन अवबोधत यदुत 'असंहता नश्यन्ति संहताश्च न नश्यन्तीति ।' पुत्रैः तदुपदेशस्य स्वीकारः कृतः सुखिनश्च जाताः ।
प्रश्न :1. कस्मात् कारणात् वृद्धस्य प्राणा न गच्छन्ति ? 2. वृद्धेन क उपदेशः दत्तः ? 3. कदा पुत्रा: यष्टी: त्रोटितुं अप्रत्यला जाता: ? 4. कः उपदेशः कथ दत्तः वृद्धेन ? 5. उपदेशानुगुणं (= उपहेश मु४५) अस्याः वार्तायाः किं नाम भवेत् ? 6. अस्या वार्तायाः कि लब्धव्यम् ?
अन्योऽपि कोऽपि उपदेशः किं भवत: चेतसि अस्ति? 8. उपदेशस्वीकारेण पुत्राः कीदृशाः जाता: ? 9. अस्यां वार्तायां तादृशः कः शब्दः यः भवता नावगतः ?
०००
3.8 सस संस्कृतम्-१.3.88258D83.3.3.3.3.3 416-32.3.3