________________
कल्प
सूत्र
ཌྜུཙྪཱཊྛལླཱཡྻ
[३६]
||..||
अनुक्रम [३८]
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्ति:)
व्याख्यान [२]........... मूलं [ ३६ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
काराणि पूर्वोक्तमानादर्धमानोचत्वदीर्घत्वपृथुत्वानि अष्टोत्तरशतकमलानि, एवं सर्वेष्वपि वलयेषु क्रमेणार्धामानत्वं ज्ञेयं, इति प्रथमं वलयम्, द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकदेवानां चतुःसहस्री कमलानां, पूर्वदिशि चत्वारि महतराकमलानि, आग्नेय्यां गुरुस्थानीयाभ्यन्तरपर्षदेवानां अष्टसहस्रकमलानि, | दक्षिणदिशि मित्रस्थानीयमध्यमपर्षदेवानां दशसहस्रकमलानि, नैर्ऋत्यां किङ्करस्थानीयवाह्य पर्षदेवानां द्वादशसहस्रकमलानि, पश्चिमायां च हस्ति १ तुरङ्गम २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाट्य ७ रूपसप्तकटकनायकानां सप्त कमलानि इति द्वितीयं वलयम्, ततस्तृतीये वलये तावतां अङ्गरक्षकदेवानां षोडशसहस्रकमलानि इति तृतीयम् वलयं, अथ चतुर्थे वलये अभ्यन्तराभियोगिकदेवानां द्वात्रिंशल्लक्षकमलानि पञ्चमे | वलये मध्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि, षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिंशलक्षक्रमलानि, सर्वसंख्पया च मूलकमलेन सह एका कोटिविंशतिर्लक्षाः पञ्चाशत् सहस्राः शतमेकं विंशतिश्च - १२०५०१२० कमलानामिति । अथ एवंविधं यत्कमललक्षणं स्थानं तत्र स्थितां पुनः किंवि० १ ( पसत्थरूवं ) प्रशस्तरूपां - मनोहररूपां इत्यर्थः पुनः किंवि० ? (सुपइट्ठिअत्ति ) सुप्रतिष्ठितौ सम्यकतया स्थापिती यौ (कण| गमयकुम्मत्ति ) कनकमयकच्छपौ तयोः (सरिसोवमाणचलणं ) सदृशं युक्तं उपमानं ययोः एवंविधौ चरणौ यस्याः सा तथा तां पुनः किंवि० ? (अच्चुन्नयत्ति) अत्युन्नतं तथा (पीणत्ति) पीनं-पुष्टं यत् अङ्गुष्ठादि अगं तत्र स्थिताः (रअ) रञ्जिता इव, अयमर्थः- श्रीदेव्याः स्वयमेव नखास्तथा रक्ताः सन्ति यथा उत्प्रेक्ष्यन्ते
For Filde&Fersonal Use On
~99~
वलयपूरि वारवर्णनं सू. ३६
५
१०
१४
janelbary.org