________________
कल्प
सूत्र
Brea
प्रत
सूत्रांक [३४]
गाथा
||..||
दीप
अनुक्रम
[३६]
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
........... व्याख्यान [ २ ] ............ मूलं [३४] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
(तओ पुणो ) ततः पुनः - गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किंविशिष्टं वृषभं ? (धवलकमलपत्तत्ति) धवलानां उज्ज्वलानां कमलानां यानि पत्राणि तेषां (पयरत्ति) प्रकर:- समूहस्तस्मात् (अगत्ति) अतिरेका-अधिकतरा ( रूवप्पभं ) रूपप्रभा -- रूपकान्तिर्यस्य स तथा तं पुनः किंवि० ? (पहासमुदओवहारेहिं ) प्रभा - कान्तिस्तस्याः समुदयः - समूहस्तस्य उपहारा-विस्तारणानि तैः (सव्वओ) सर्वतो -दशापि दिशः (चेव) निश्चयेन (दीवयंतं) दीपयन्तं - शोभयन्तं पुनः किंवि० ? (अइसिरिभरत्ति) अतिशयितः श्रीभरः- शो भासमूहस्तेन कृता या ( पिल्लुणा) प्रेरणा, उत्प्रेक्ष्यते तथैव (विसप्तत्ति) विसर्पत्-उल्लसत् अत एव ( कंतत्ति) कान्तं-दीतिमत् तत एव (सोहतत्ति ) शोभमानं ( चारु) मनोहरं ( ककुहं ) ककुदं स्कन्धो यस्य स तथा तं, अयमर्थः - यद्यपि स्कन्ध उन्नतत्वात् स्वयमेव उल्लसति तथापि अतिश्रीभरप्रेरणयैव उल्लसतीत्युत्प्रेक्ष्यते, पुनः किंवि० ? (तसुद्धसुकुमालत्ति) तनूनि - सूक्ष्माणि शुद्धानि - निर्मलानि सुकुमालानि ईदृशानि यानि (लोमत्ति) रोमाणि तेषां (शिद्धछविं ) स्निग्धा सस्नेहा न तु रूक्षा छविः - कान्तिर्यस्य स तथा तं पुनः किंवि० १ (थिरसुबद्धत्ति) स्थिरं दृढं अत एव सुबद्धं (मंसलोवचिअ ) मांसयुक्तं अत एव 'उवचिय'त्ति पुष्टं (लट्ठत्ति) लष्टं प्रधानं (सुविभत्तत्ति) सुविभक्तं यथास्थानस्थित सर्वावयवं ईदृशं (सुंदरंगं) सुन्दरं अङ्गं यस्य स तथा तं, (पिच्छइ ) सा त्रिशला प्रेक्षते इदं क्रियापदं पुनः किंवि० ? (घणवत्ति) घने निचिते वृत्ते-पर्तुले (लट्टउहित्ति) लष्टात्प्रधानादपि उत्कृष्टे अतिप्रधाने इत्यर्थः (तुप्पग्गत्ति ) म्रक्षिताग्रे ( तिक्खसिंगं) तीक्ष्णे ईदृशे शृङ्गे यस्य स तथा
Educatoon
For Filde & Personal Use Only
~ 95~
वृषभखप्नवर्णनं सू. ३४
१०
१४
Say