________________
कल्प
सूत्र
प्रत
सूत्रांक
[१८]
गाथा
||..||
दीप
अनुक्रम
[PC]
कल्प. सुबोव्या० २
॥ २८ ॥
Jannication in
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
........... व्याख्यान [ २ ] ............ मूलं [१८] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
परिणयनार्थं तत्रागतेन विशाखनन्दिनाम्ना पितृव्यपुत्रेण हसितः सन् कुपितस्तां धेनुं शृङ्गयोर्गृहीत्वा आकाशे भ्रमितवान्, निदानं चैवं कृतवान्- यदनेन उग्रतपसा भवान्तरे भूयिष्ठवीर्यो भूयासं, ततो मृत्वा सप्तदशे भवे महाशुक्रे उत्कृष्टस्थितिः सुरः ततश्च्युतः अष्टादशे भवे पोतनपुरे खपुत्रीकामुकस्य प्रजापते राज्ञो मृगावत्याः पुत्र्याः पत्न्याञ्च कुक्षौ चतुरशीतिलक्षवर्षायुस्त्रिष्टष्टनामा वासुदेवः तत्र बाल्येऽपि प्रतिवासुदेवशालिक्षेत्रविप्रकारिणं सिंहं विमुक्तशस्त्रः कराभ्यां विदारितवान् क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालक आदिष्टवान् पर्वस्मासु निद्राणेषु एते गायना गीतगानान्निवारणीयाः, तेन च गीतरसासक्तेन वासुदेवे निद्राणेऽपि ते न निवारिताः, ततः क्षणात् प्रतिबुद्धेन वासुदेवेन आः पाप ! मदाज्ञापालनादपि तव गीतश्रवणं प्रियं लभख | तर्हि तत्फलं इत्युक्तवा तत्कर्णयोस्तप्तं त्रपु क्षिप्तवान् तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान् एवं च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे भवे सप्तमनरके नारकतया उत्पन्नः, ततो निर्गत्य विंशतितमे भवे सिंहस्ततो मृत्वा एकविंशतितमे भवे चतुर्थनरके, ततो निर्गत्य यहून् भवान् भ्रान्त्वा द्वाविंशे भवे मनुष्यत्वं प्राप्योपार्जितशुभकर्मा त्रयोविंशे भवे मूकायां राजधान्यां धनञ्जयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती वभूव स च पोहिलाचार्यसमीपे दीक्षां गृहीत्वा वर्षकोटिं यावत् परि
१ जिनभवात् प्राक् षष्ठे भत्रे पोट्टिलकुमार : मृतश्च सहस्रारेऽभूदिति समवाये, उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्ये तदेव पष्ठभवप्रणतया व्याख्यातमिति वाक्यार्थमनवबुध्य यथारुचि कथनं खाद्यानां न मतिमतां मान्यं, नहि भवद्वयेन कल्याणकालिसंगतिरुचिता
For Pile & Ferson Use O
~74~
श्रीवीरस्य
२७ भवाः
१५
२०
२४ ॥ २८ ॥
nebary.org